SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ प्रवाहबद्धानि जलानि पश्यतां भवेद् भुवस्सङ्क्रमणस्य यद् भ्रमः । सरिद्धि सम्मोहनविद्ययाऽनया करोति नृन् सन्निहितानवाचकान् ॥३१॥ समर्चनोपस्कृतसूनसङ्कलैरमन्दडिण्डीररसैर्विमिश्रितैः । निषिध्यते रूपवतां प्रतिक्रिया ऽनया जलस्तीरगतैरनिर्मलैः ॥३२॥ अनेकतीर्थोपनतां पवित्रितां त्रिसन्ध्यमारात्रिकघोषवासिताम् । असङ्ख्ययात्रिस्नपनैरिवोज्ज्वलां महर्षयो मातरमामनन्त्यमुम् ॥३३॥ विभिन्नमन्त्रैरधिवासितं सुधासमं समग्रौषधिगन्धगर्भितम् । निधीयते मूर्तिषु देवसद्मसु जलं तदीयं न ततो हि शुष्यति ॥३४॥ रहस्स्थलेऽभ्यङ्गविधौ सलज्जया नवोढयाऽङ्गेषु मुदाऽधिवाहितम् । प्रसन्नतामेति ददाति सङ्गतौ जलं तदीयं न ततो हि शुष्यति ॥३५॥ मृतस्य जीवस्य शरीरभस्मनां विमोचनैस्स्वीयजनस्सहाश्रुभिः । समर्थिता शान्तिमुपाहरेदियं जलं तदीयं न ततो हि शुष्यति ॥३६॥ श्रीमाणिभद्रमहाकाव्यम् १
SR No.009095
Book TitleManibhadrakavyam
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2008
Total Pages209
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy