SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ तरूत्वगालिङ्गितनीरबिन्दवः सितेतरां कान्तिमुपाश्रिता नवाम् । भवन्ति तावच्छबरीवधूजनरतश्रमस्वेदजलैस्सबान्धवाः ॥७॥ प्रकम्पिपर्णैः सरघाकलैः पिकैः स्वनद्भिरकस्वरता विधीयते । तरौ तरौ तत्-त्रयसङ्गतैः किमु त्रिमूर्तिरेकाधिकतामुपागतः ॥८॥ प्रगाढवृत्त्याऽन्तरनागतातपात् प्रतिस्वरूपाऽनुपलब्धिदर्शनात् । भुवं स्पृशन्तो द्युसदो भवन्त्यगा न देवतानां प्रतिबिम्बितं यतः ॥९॥ शिरस्सु संवाहितसूर्यभानवः स्वमध्यमध्यासितभूरिजन्तवः । तलस्थलस्थापितसम्यगौषधाः तरुस्वरूपेण लसन्ति मेरवः ॥१०॥ न सङ्ख्यया नावधिना न सञ्जया न चोपमित्याऽपि न चानुमानतः । भवेदुपाख्याऽस्य तरूत्करस्य तत् वनं हि सिद्धैः कलितं न पादपैः ॥११॥ वहत्सु वातेष्वविरामशालिसु वितन्यतेऽलं नटराजनर्तनम् । प्रकम्पिताङ्गं घनघोरगर्जनं वनेन वृक्षर्बत विश्वतर्जनम् ॥१२॥ श्रीमाणिभद्रमहाकाव्यम् १
SR No.009095
Book TitleManibhadrakavyam
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2008
Total Pages209
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy