SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ नियतमिह करिष्ये श्रीतपागच्छसेवां मम गतभवपापा-लोचनैषैव भूयात् । जगदिदमुपशान्ति यातु धर्माश्रयेण विकसतु शुभधर्मस्साधूनां साधनाभिः ॥४२॥ प्रचरतु मुनिसङ्के साधना विघ्ननाशाद् प्रभवतु बलसाध्यो विघ्ननाशो मयैव । इति सुरभवमुच्चैर्धर्मवन्तं विरच्य नरभवमुपजातो मोक्षगामी भवेयम् ॥४३॥ त्रिभिर्विशेषकम् इति वचनविनीतं पादयोस्स्पृष्टमौलिं पदयुगधृतहस्तं चाङ्गुरस्थाप्यभालम् । सुरपतिमनगारा अंसभागे स्पृशन्तः पुनरपि मधुरं तं धर्मलाभं निरूचुः ॥४४॥ इत्यानन्दितसद्गुरुक्रमगतोऽभ्युत्थाय बद्धाञ्जलिनत्वाऽऽज्ञामुपलभ्य सार्वशरण: श्रीमाणिभद्रः सुरः । सर्वान् साधुजनान् नमन् गुणवतः सार्मिकान् संस्तुवन् पुण्यावर्जितमानस: प्रशमवान् स्वर्लोकमध्याश्रितः ॥४५॥ श्रीमाणिभद्रमहाकाव्यम् ९
SR No.009095
Book TitleManibhadrakavyam
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2008
Total Pages209
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy