SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ १६४ श्रुणु बत सुखसक्ता मा त्वया मुग्धलोकाः परिहृतभगवन्तो लोभबद्धा भवन्तु । भगवति गतरागे रागबन्धेन धन्याः सकलसुखविरक्तास्सन्तु ते ते सहायात् ॥ ३६ ॥ मुनिभिरिव नमस्याः श्रावका द्वादशादिव्रतिन इति तव स्यादुत्तमोऽयं विवेकः । अविरतिविनिबद्धः त्वं हि वन्दध्वमेतान् विरतिरतिविशिष्टां भावपूजां भजध्वम् ॥३७॥ त्वयि न विरतिवन्ध्या होमपाठा भवन्तु त्वयि सुखरससक्ता याचना मा भवन्तु । त्वयि न भवतु लोके मान्यतादिप्रचारः त्वयि न भवतु किञ्चिद् देव ! संसारबद्धम् ॥ ३८ ॥ त्वयि भवतु मुनीनां धर्मलाभास्सदैव त्वयि भवतु मुनीना - मेव माङ्गल्यपाठाः । भवतु भगवदर्चाकारिसाधर्मिकाणां त्वयि गुणवति यक्ष ! प्रीतिरेवादरश्च ॥३९॥ सरलहृदयशाली शीघ्रसाहाय्यकारी विकटविकृतिवारी सङ्कटेषु प्रहारी । प्रथय सततरक्षां त्वं तपागच्छसङ्के भवतु भवतुला ते शङ्करत्वेन नित्यम् ॥४०॥ मलयजरसबिन्दून् कुङ्कुमार्ध्यान् सुगन्धान् वलयितभुवि वर्ष - न्नाशिषस्स्वीचकार । अकथयदनुवाक्यं पञ्चवन्द्यानुयुक्तस्तदुपहितबलोऽहं नाममन्त्रेण सिद्धः ॥४१॥ श्रीमाणिभद्रमहाकाव्यम् ९
SR No.009095
Book TitleManibhadrakavyam
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2008
Total Pages209
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy