SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ स्नेहानुबद्धमनसा न विलापवाक्यैरस्माकमर्हति विपन्नजनेषु शोकः । आजीवनं श्रमणधर्ममुपावृतानां मृत्यावकालघटिते वयमूनसत्त्वाः ॥४३।। आहारपानविरता अनधीतशास्त्रा आवश्यकेष्वपि किमुत्सुकताऽनपेताः । साधं परं मतिविनाशनिबद्धमत्र पश्यन्त एव नवमृत्युभयाज्जडाः स्मः ॥४४॥ युग्मम् किं मानवेतरबलं विकटं क्षिणोति जिज्ञासयेति भवतीमहमाजुहाव । ज्ञातेषु वैरिषु जयस्सुकरो जगत्यामज्ञाततैव समरे परमोऽस्ति शत्रुः ॥४५॥ रोगस्य योग्यमुपचारमपेक्षते यो योग्यं निदानमयमिच्छतु पूर्वमेव । वैद्ये निदर्शयति चामयमूलहैतौ नारोग्यलाभमुपयातु सुखादयं किम् ॥४६॥ एतन्निशम्य विहितावधिबोधयोगा देवी जगाद भगवन् तव नास्ति दोषः । नैवापराधरचना भवतां मुनीनां कश्चिद् विरोधचतुरो विपदो वितेने ॥४७॥ चेद् गूर्जरेषु भगवान् विहरेद् द्रुतं तद् वन्यां लभेत दृढवारणमिष्टकारि । त्यक्त्वा मुनि विमतविह्वलमत्र शीघ्र निर्यातु देव ! मरुतः प्रति गूर्जरात्रम् ॥४८॥ १४४ श्रीमाणिभद्रमहाकाव्यम् ८
SR No.009095
Book TitleManibhadrakavyam
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2008
Total Pages209
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy