SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ १४० वातायनात् पथिकलोकनिमन्त्रणानि द्वारागतांश्च कटुशब्दतिरस्कृतानि । प्रश्नेष्वनल्परुदितैरवमानितानि तन्वन् मुनिर्गुरुवरान् कुरुतेऽसहायान् ॥३१॥ एकैकमेवमनुदारविकारवन्तं निर्माय रोगरटिताऽऽरवणेन साकम् । सन्ध्यासु भानुकिरणैरिव कालदेव भोज्यं करोति यमिनो विषमः प्रयोगः ||३२|| विक्षोभिता गुरुवरा दशसङ्ख्ययैवं कालाशितेषु दिवसैर्दशभिर्यतेषु । कालस्य कोपमतिरोषणमीक्षमाणा आनन्दहेमगुरवोऽभ्युपयान्ति खेदम् ||३३|| श्रीसूरिमन्त्रजपमध्यधिकं वितेनुः निस्तन्द्रमेकरसमष्टमभक्तयुक्तम् । मन्त्राक्षरेण शुभभावविभावितेन जागर्ति शं सततसन्निहितामरेण ॥ ३४ ॥ प्रत्यक्षमिन्दुवदनामरविन्दनेत्रामाभाभिरंशुपतिमानहरीं निदध्युः । सूरीश्वरा रहसि तीर्थसुरीं पृथिव्याः खण्डे स्थिताममृतपानवितानशालाम् ॥३५॥ आचक्षते स्म भवती भवतीर्थरूपैराज्ञापिताऽस्मि मम भाग्यमिदं पुनद्भिः । आवेद्यता भगवता मयि कार्यसेवा हेवा ममैव युगपत् सकलाऽस्तु पूर्णा ||३६|| श्रीमाणिभद्रमहाकाव्यम् ८
SR No.009095
Book TitleManibhadrakavyam
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2008
Total Pages209
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy