SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ भाग्योदयेन दयितानयनातिथित्वं पत्युर्भवेज्जलनिधाविव चन्द्रबिम्बम् । स्निग्धा रुचो नयनयोः पतिनेत्रवीक्षानिर्नामितैः नवतमां सुषमां वहन्ति ॥१३।। अर्हत्कृपापरिवृता मम चेत् समीपे सा सम्भवेदतनुपुण्यवती पवित्रा । धर्मोपदेशवचनै रचयेत् समाधि रागो यतः परिणतो भवति प्रशस्यः ॥१४।। मृत्योरकाण्डघटना कथमेव सह्या भूयात्तयोः कमलकोमलचित्तवृत्त्यो । यद्वा मिथो ह्युभययोर्जिनभक्तिवत्योराघात एष विषमः सहवाससह्यः ॥१५॥ नूनं स्मशानगतसाधुमुखेऽनलानां स्पर्शादुपज्ञमघमद्य हि मामुदेति । अङ्गेषु यज्ज्वलति तीव्रतयाऽग्नितापः पापानि पापिनि दयां न हि धारयन्ति ॥१६॥ वन्दे निरुत्तरचरित्रधरं मुनिं तं योऽग्नि विषह्य समतापरिणायकोऽभूत् । धिग् मां हुताशननिदग्धसमस्तपुण्यं स्यादेव निष्ठुरमतिः प्रबलाऽधमानाम् ॥१७॥ सूरि स्मरामि करुणानिलयं प्रबोधाद् येनाऽर्पिता मम नवा दृगनन्तपुण्यैः । तेनेरितोऽस्मि गिरिशेखरदर्शनार्थं हा ! तद्वचांसि पतितोऽत्र न पालयामि ॥१८।। १३४ श्रीमाणिभद्रमहाकाव्यम् ८
SR No.009095
Book TitleManibhadrakavyam
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2008
Total Pages209
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy