SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ धूपेन सौरभवता शुचिदीपकेन नाथं कराग्रनिहितेन न पूजयामि । नैवेद्यकैः फलकुलैरथ तण्डुलैश्च नो तर्पयामि सुखदं खलनाशिताशः ॥७॥ तत्याज दुःस्थवचनैरहमर्चनां यां सा मामवद्यवशमद्य जहाति दूरम् । माता किमु त्यजति पालितमङ्कखेलैः पुत्रं नितान्तमवमानिनमस्तरत्या ॥८।। धन्यां नमामि मम मातरमुत्तराणि यस्या अवाप्य भगवन्तमहं जगाम । त्यक्त्वा ममैव हितदृष्टिभिरुत्तमान्नं मां रक्षति स्म भववर्धकपातकेभ्यः ॥९॥ याऽसुं तनुं मम ददौ प्रणमामि तस्याः पादारविन्दमकलङ्कमवर्णनीयम् । दत्तं तया यदपि तत्तदिमां हि दद्यां यान्तोऽसवोऽत्र चरणेषु समर्पिता: स्युः ॥१०॥ अर्धाङ्गिनी मम समग्रमुपाधिभावं स्वीकृत्य याऽप्यनुनयैरिह मामनेनेक् । सर्वस्वमर्पितवती निरपेक्षभावैस्तां धर्मशुद्धहृदयामनुमोदयामि ॥११॥ यन्नावदं तदपि साऽनुगता श्रुणोति यन्नास्मरं तदपि साधयतीव मह्यम् । नाकुर्वि यन् मम यशोऽपि ददाति तस्य मत्तोऽधिका मयि रतिर्विशदा प्रियायाः ॥१२।। १३२ श्रीमाणिभद्रमहाकाव्यम् ८
SR No.009095
Book TitleManibhadrakavyam
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2008
Total Pages209
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy