________________
यत्र शुश्राव सुश्रावको मन्दिर घण्टिकाध्वानमध्वानमध्याश्रितः । तत्र सदृष्टयोऽदृष्टयोग्येतरा अश्रुणो धारयाऽऽधारयाच्ञापरा ॥४३॥
तेजसा वर्धमानां तपस्यां दधन् प्रातरुद्गच्छता भास्करणेड्यते । सान्ध्यमश्रान्तसञ्चारणश्शस्यते तेन नक्तंपरिक्षीयमाणांशुना ॥४४॥
क्षेत्रमुद्यानमाघाटमालिमलीगर्दमश्वामहे:कोशमावेशनम् । ईन्द्रकानाहवानुत्सवानुल्मकान् पश्यति स्मैकदृष्ट्या स्मृतादीश्वरः ॥४५।।
ज्ञातवान् दोधकोल्लापिगोपालकै
र्गितीरावतीर्णैस्तृणैर्गुर्जरम् । विस्तृतच्छायिवृक्षैः फलाडम्बरनिम्नगाऽस्थागवारिप्रवाहैरपि ॥४६॥
फुल्लकेदारमाक्रामका पक्षिणो मञ्जुलस्वानिनश्चक्रमुत्पातिनः । स्थालिकावादकाद् गोपपुत्रादपि निर्भया बाढमत्रैव चञ्चुग्रहाः ॥४७॥
धौति कासारतीरंऽशकान्येकका नावृतार्धाघ्रिणा वारिविन्यासिना । रक्तगौरे कपोलेऽत्र घर्मोदका शीकरस्पर्शनैर्यान्ति नो दृश्यताम् ॥४८।।
१२६
श्रीमाणिभद्रमहाकाव्यम् ७