SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ १२४ याचतेऽनन्तकारुण्यतारुण्यवत्सद्गुरोरेतदावेद्य धर्माशिषः । एकलव्येऽर्जुने सूतपुत्रेऽमिताऽऽ चार्यनिष्ठैव साफल्यलक्ष्मीप्रसूः ॥३७॥ नीवृतान्निर्वृतायामथर्तावभूद् भानुभाभास्वरो घस्त्रवर्गश्चिराद् । कर्दमह्रासतः शुद्धमार्गक्रमो वेगशान्त्याऽऽपगानौपथोद्घाटना ॥३८॥ गूर्जरात्रे मरोर्याति मुख्ये पथि स प्रतस्थे पदैरल्पभारस्तनौ । भुक्तिपीतिवियुक् स्वाददेहाऽरतः भक्तिप्रीतिसयुग् देवतासाधुषु ॥३९॥ हस्तिनाऽश्वेन सौख्यासनेनाऽन्तराऽ सौ प्रवासे प्रयाति प्रणुन्नः प्रभौ । देवदेवे युगादौ हितादेशिनि नाभिजातेऽभवे मारुदेवे शिवे ॥४०॥ अञ्जलौ यष्टिशृङ्गस्थ - कूर्चाननान् पादपीठीः समुन्नासिका धायिनः । रक्तपट्टानुबद्धोत्तमाङ्गान् मरावुष्ट्रसंरक्षकान् मार्गतोऽभालयत् ॥४१॥ द्वीपदन्ताकृतैः कङ्कणैर्भूरिभिबहुधायैः क्वणन्त्योऽङ्गनाः कोमलाः । अङ्गणे गोमयालेपिका दर्शयन्त्यस्य गार्हस्थ्यचातुर्यमर्धाऽऽनताः ||४२|| श्रीमाणिभद्रमहाकाव्यम् ७
SR No.009095
Book TitleManibhadrakavyam
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2008
Total Pages209
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy