SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ नीरभस्राभिराकण्ठपीतैर्जलै रवी तृट् कथं शाम्यतां यात्रिभिः । अङ्गनासङ्गवत्तृप्तितोऽतृप्तता जायते संयमस्सर्वतस्त्रस्यति ॥२५॥ यो मरीचेभ्रंमस्तोयनिर्देशनो दूरमालोक्यतेऽस्मिन् रजोमण्डले । मार्गविस्थापनो बुद्धिविभ्रंशनो जीववित्रासनो भोगतृष्णायते ॥२६॥ मेघकालेऽम्भसा प्लाविता भूमयो राजसा स्फाटिकरावृता ग्रावभिः । तत्र बिम्बीभवन्नम्बुदौघः किमु राति विद्युद्भरै रौप्यरूपं रयाद् ॥२७।। घट्टितैर्वारिदैनिष्पतद्भिर्जलैवातविद्धैर्दुमैर्यत्सरिबृंहणैः । नादवैविध्यमारच्यते तत् खलु केकिनां काकलीकार्मणैः क्लव्यते ॥२८॥ वर्षया निर्मिते पण्यविश्रामणेऽ सूर्यदर्शित्वतो रात्रितुल्या दिना । उग्रसौदामिनीत्विभिरुद्योतिता वासरन्ति त्रियामा अनिद्रावशा ॥२९।। वर्षणाऽऽवासमाराधनार्थं दधुः तत्र सूरीश्वरा शिष्यसङ्घान्विताः । नित्यमाचार्यसेवार्थमायान् धनी धर्मवार्ता श्रृणोत्यात्मचिन्तातुरः ॥३०॥ १२० श्रीमाणिभद्रमहाकाव्यम् ७
SR No.009095
Book TitleManibhadrakavyam
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2008
Total Pages209
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy