SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ गलतु गर्हितग्रन्थिगणा गणिन् । चलतु चारुचरित्रजचर्चरी । ज्वलतु जित्वर ! जागृतिजागृविः मदवनी च वनी चरति प्रभौ ॥३७।। मुनिप ! गेहमलङ्क मे सकृद् मनसि धारय शब्दममुं लघु । यदपि वाक्यमनादरतोऽलपं सहजविस्मर ! विस्मर तद् रयाद् ॥३८॥ त्वयि वदत्युपगेहमहं प्रभो ! नवतरामुपयामि सुधर्मिताम् । प्रकटमस्ति च कामिजनेष्वपि जलदगजितमजितमन्मथम् ॥३९॥ तव चरित्रपवित्रपदाम्बुजैः सुरभिते त्वभितः सति मे गृहे । न विचरेयमहं गृहगोऽपि सन् सुगुणमण्डल ! मण्डलवद् भवे ॥४०॥ इति धनिप्रथितैरनुवर्तनैगुरुरमुष्य विलोक्य सदाग्रहम् । सकलसङ्घयुतोऽगमदत्वरं शुभवने भवनेऽस्य सवादनम् ॥४१॥ गुरुवरागमनोल्लसदात्मनो धवलकान्तिविलासवृता बभुः । धनिकमातृवधूप्रभृतेस्तदा ऽऽननघटा न घटा इव राजताः ॥४२।। १०८ श्रीमाणिभद्रमहाकाव्यम् ६
SR No.009095
Book TitleManibhadrakavyam
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2008
Total Pages209
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy