SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ अयं भस्मलीनास्थिभागानुखण्डध्वनिश्रावणः पादयोरप्यभीतः । अलातप्रतिच्छायकाक्षोऽवबुध्य स्थलीमन्तशय्याभुवोऽस्थादवाणिः ॥७।। झिरीकासमुत्ताननिःस्वानमग्निपरच्छन्दमन्दज्वलत्काष्टशब्दम् । शृगालीदतीपाट्यमानाङ्गभागैः शवैरुग्रगन्धैरुपाघृष्टधूलिम् ॥८॥ फणिस्फारफूत्कारफेलाविलानां वटानां जटानां घटानां फटानाम् । जडानामधस्तात्त्रिशूलाय॑वेदीसमक्षं कपालीक्रियाक्रूरघोषम् ॥९॥ महीशानमृत्योर्महानृत्तमञ्च भयानां स्यान्निर्दयानां शयानम् । श्मशानं तमोनिर्मितिस्थानमेकं बभूवाऽस्य साक्षादनेत्रानुभावम् ॥१०॥ त्रिकम् । समन्तात् स सूक्ष्मीकृताक्षोऽनुपश्यन् स्मृतावाप किञ्चिन्निदध्यौ च किञ्चिद् । अथान्वेषयन् किञ्चिदालोक्य कञ्चिद् अकिञ्चित्करत्वेन वन्ध्यश्चचाल ॥११॥ पदाघातरावप्रतिश्रावमात्रग्रहैरेषकः प्राप्तवान् स्थाणुमेकम् । तदाकारनिर्णेतुकामः समीपं समागत्य मूढीभवन्मानसोऽभूत् ॥१२।। श्रीमाणिभद्रमहाकाव्यम् ५
SR No.009095
Book TitleManibhadrakavyam
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2008
Total Pages209
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy