SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ द्वितीयो भागः [ परि०३-का० ५२] ४९९ वासनायाश्चासम्भवात् । अनभिसन्धिमदेवोत्तरं चित्तं हिनस्ति । तत एव हिंसाभिसन्धिहिंसाचित्तद्वयादपेतं चित्तं बध्यते । यच्च बद्धं तन्न मुच्यते, ततोऽन्यस्य मुक्तेः । इति कोऽन्यः प्रकाशयेन्निरन्वयात् तस्यैवम् ? (भा०) सन्तानादेरयोगादितिकर्तव्यतासु चिकीर्षोविनाशात् कर्तुरचिकीर्घत्वात् तदुभयविनिर्मुक्तस्य बन्धात्तदविनिर्मुक्तेश्च यमनिमादेरविधेयत्वं, कुर्वतो वा यत्किञ्चनकारित्वं प्रत्येतव्यम् । न चैवमनेकान्तवादिनः, प्रतिक्षणं परिणामान्यत्वेऽपि जीवद्रव्यस्यान्वयात् चिकीर्पोरेवेतिकर्तव्यतासु कर्तृत्वात्कतुरेव च कर्मबन्धाद् बद्धस्यैव विनिर्मुक्तेः सर्वथा विरोधाभावात् । क्षणिकवादिनामपि सन्तानस्यैकत्वात्पूर्वपूर्ववासनोपहितोत्तरोत्तरचित्तविशेषस्योत्पत्तेरनुपालम्भ इति चेत्, न सन्तानस्यावास्तवत्वाद्वास्यवासकभावस्याप्यसम्भवादव्यभिचारकार्यकारणाभावस्यापि तन्नियमहेतुत्वायोगात् सुगतेतरचित्तसन्तानेष्वपि भावादिति निरूपितत्वाच्च ॥५१॥ क्षणिकैकान्तवादिनाम् अहेतुकत्वान्नाशस्य हिंसाहेतुर्न हिंसकः । चित्तसन्ततिनाशश्च मोक्षो नाष्टाङ्गहेतुकः ॥५२॥ सर्वथापि अष्टसहस्त्रीतात्पर्यविवरणम् त्वादितरस्याऽविनिगम्यत्वात् ॥५०॥ निरन्वयादिति निरन्वयशब्दो निर्वंशत्वाध्यवसायेनान्वयाभाववादिनं सौगतं लक्षयंस्तस्य निन्द्यतामभिव्यनक्ति । इतिकर्तव्यतासुक्रमनियतासु क्रियासु, अचिकीर्षत्वादिति न विद्यते चिकीर्षा यस्य क्षणस्य तत्त्वादित्यर्थः तदुभयेति चिकीर्षाकर्तृक्षणविनिर्मुक्तस्य तृतीयस्य बद्धत्वादित्यर्थः । तदविनिर्मुक्तेः बद्धक्षणस्याऽमोक्षात्, अभिधेयत्वम् अभिधामात्रेणात्मन आश्वासः, कुर्वतो वा यत्किञ्चनकारित्वम् अबुद्धिपूर्वकप्रयासमात्रम्, पूर्वपूर्वक्षणानामुत्तरत्रानन्वयेन कार्यकारणसामानाधिकरण्याद्यभावादित्यर्थः ॥५१॥
SR No.009090
Book TitleAshtasahastritatparya Vivaranam Part 2
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherPravachan Prakashan Puna
Publication Year2004
Total Pages294
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Philosophy
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy