SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ द्वितीयो भाग: [ परि० १० का ० ९९ ] न हि जीवाः शश्वदशुद्धित एव व्यवस्थिताः स्याद्वादिनां याज्ञिकानामिव, कामादिस्वभावत्वनिराकरणात्, तत्स्वभावत्वे कदाचिदौदासीन्योपलम्भविरोधात् । नापि शुद्धित एवावस्थिताः कापिलानामिव, प्रकृतिसंसर्गेऽपि तत्र कामाद्युपलम्भविरोधात्, प्रकृतावेव कामाद्युपलम्भे पुरुषकल्पनावैयर्थ्यात्, तदुपभोगस्यापि तत्रैव सम्भवात् । न ह्यन्यः कामयतेऽन्यः काममनुभवतीति वक्तुं युक्तम् । नापि सर्वे सम्भवद्विशुद्धय एव जीवाः प्रमाणतः प्रत्येतुं शक्याः, संसारिशून्यत्वप्रसङ्गात् । किं तर्हि ? शुद्धयशुद्धिभ्यां व्यवतिष्ठन्ते, जीवास्ते शुद्धयशुद्धितः इति वचनात् [का० ९९] । ततः शुद्धिभाजामात्मनां प्रतिमुक्तिरशुद्धिभाजां संसारः । केषाञ्चित् प्रतिमुक्तिः स्वकाललब्धौ स्यादिति प्रतिपत्तव्यम् ॥९९॥ के पुनः शुद्धयशुद्धी जीवानामित्याहु: अष्टसहस्त्रीतात्पर्यविवरणम् यदेवैतद्रूपं प्रथममथ सालम्बनपदे, तदेव ध्यानस्थं घटयति निरालम्बनसुखम् । रमागौरीगङ्गावलयशरकुन्ताऽसिकलितं, कथं लीलारूपं स्फुटयतु निराकारपदवीम् ॥३॥ अतर्क्या लीलैशीत्यपि कपिकुलाधीतचपलस्वभावोद्भ्रान्तत्वं विदधति परीक्षां हि सुधियः । न यद्ध्यानस्याङ्गं तदिह भगवद्रूपमपि किं, जगल्लीलाहेतुर्बहुविधमदृष्टं विजयते ॥४॥ ततो यो योगाङ्गैर्बहुभिरिह गाङ्गैरिव जलैविशुद्धैः शुद्धात्माऽलभत विरजा: सिद्धपदवीम् । निषेव्यो ध्येयोऽसौ निरुपधिविशुद्धिर्भगवतो, ह्युपास्यत्वे तन्त्रं न तु विमतकर्त्रेकविभुता ॥५॥ [शिखरिणी] ६४७ कामादीति जीवत्वावच्छेदेनायं निषेधः तेन नांशतो बाधः, सम्भवद्विशुद्धयो = विशुद्धिप्रागभाववन्तः, संसारिशून्यत्वप्रसङ्गादिति प्रागभावस्य प्रतियोगिजनकत्वनियमादित्यर्थः ॥९९॥
SR No.009090
Book TitleAshtasahastritatparya Vivaranam Part 2
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherPravachan Prakashan Puna
Publication Year2004
Total Pages294
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Philosophy
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy