SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ अष्टसहस्त्रीतात्पर्यविवरणम् ज्ञानाविनाभाविनामेवेष्टानिष्टफलदानसमर्थकर्मबन्धहेतुत्वसमर्थनात् मिथ्यादर्शनादीनामपि सङ्ग्रहात् सङ्क्षेपत इति बुध्यामहे । ततो मोहिन एवाज्ञानाद्विशिष्टः कर्मबन्धो न वीतमोहादिति सूक्तम् । ६३४ (भा०) तथैव बुद्धेरपकर्षान्मोहनीयपरिक्षयलक्षणान्मोक्ष्यति विपर्य विपर्यासादित्यधिगन्तव्यम् । प्रकृष्टश्रुतज्ञानादेः क्षायोपशमिकात् केवलापेक्षया स्तोकादपि छद्मस्थवीतरागचरमक्षणभाविनः साक्षादार्हन्त्यलक्षणमोक्षस्य सिद्धेः । तद्विपरीतात्तु मोहवतः स्तोकज्ञानात् सूक्ष्मसम्परायान्तानां मिथ्यादृष्ट्यादीनां कर्मसम्बन्ध एव इति चिन्तितमन्यत्र ॥ ९८ ॥ नन्वस्तु मोहप्रकृतिभिः कामादिदोषात्मिकाभिः सहचरितादज्ञानात् पुण्यपापकर्मणोः शुभाशुभफलानुभवननिमित्तयोः प्राणिनां बन्धः । स तु कामादिप्रभवो महेश्वरनिमित्त एवेत्याशङ्कामपाकर्तुमिदमाहुः कामादिप्रभवश्चित्रः कर्मबन्धानुरूपतः । तच्च कर्म स्वहेतुभ्यो जीवास्ते शुद्धयशुद्धितः ॥ ९९ ॥ कामादिप्रभव (भा०) भावसंसारोऽयं नैकस्वभावेश्वरकृतस्तत्कार्यसुखदुःखादिवैचित्र्यात् । यस्य यस्य कार्यवैचित्र्यं तत्तन्नैकस्वभावकारणकृतं यथानेकशाल्यङ्कुरादिविचित्रकार्यं शालिबीजादिकं, सुख:दुखादिकार्यवैचित्र्यं च संसारस्य तस्मान्नायमेकअष्टसहस्त्रीतात्पर्यविवरणम् कर्मबन्धसामान्ये द्वादशगुणस्थानसम्भव्यज्ञानस्यैव हेतुत्वकल्पनात्तत्रैव तदन्तर्भावादित्यर्थः । वीतमोहात्=मोहरहितात् । भाष्ये बुद्धेरपकर्षात् = अपकृष्टबोधात्, मोहनीयपरिक्षयलक्षणात्=कषायमोहोदयाभावविशिष्टात् मोक्षः = कैवल्यात्मा जीवन्मोक्षः, विपर्यये= मोहक्षयाभावे बुद्धेरपकर्षे, विपर्ययाद् बन्धसम्भवादित्यर्थः । तथा च मोहक्षयविशिष्टज्ञानत्वेन कैवल्यहेतुतैवेत्यर्थः ॥९८॥ यस्य यस्येति यस्य यस्य कारणस्य यद् यत्कार्यवैचित्र्यं तस्य तस्य तत्तन्नैक
SR No.009090
Book TitleAshtasahastritatparya Vivaranam Part 2
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherPravachan Prakashan Puna
Publication Year2004
Total Pages294
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Philosophy
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy