SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ द्वितीयो भाग: [ परि०७-का० ८३] ५९७ वावश्यं कार्यवत्त्वानुपपत्तेः ।। (भा०) ततः प्रत्यक्षेतरबुद्ध्यवभासस्य स्वसंवेदनात्प्रत्यक्षविरुद्धं । ज्ञानस्याप्रत्यक्षत्वमनुमानविरुद्धं च । तथा हि (भा०) सुखदुःखादिबुद्धेरप्रत्यक्षत्वे हर्षविषादादयोऽपि न स्युरात्मान्तरवत् । [अनुभवमनुसृत्य ज्ञानं प्रत्यक्षमेव न च परोक्षं ] (भा०) एतेन प्रतिक्षणं निरंशं संवेदनं प्रत्यक्षं प्रत्युक्तं, यथाप्रतिज्ञमनुभवाभावात्, यथानुभवमनभ्युपगमात् । स्थिरस्यात्मनः सुखदुःखादिबुद्ध्यात्मकस्य प्रत्यक्षमनुभूयमानस्य हर्षविषादादेरनुभवात् । भ्रान्तोऽयमनुभव इति चेत्, न बाधकाभावात् । (भा०) सर्वत्र सर्वदा भ्रान्तेरप्रत्यक्षत्वाविशेषात् । परोक्षज्ञानवादानुषङ्गः सौगतस्य । (भा०) कथञ्चिद् भ्रान्तावेकान्तहानेः स्याद्वादानुप्रवेशः । न केवलं निर्विकल्पकेऽर्थदर्शने परोक्षज्ञानादविशेषः । किं तर्हि ? तदव्यवस्थाहेतौ ___ (भा०) विकल्पस्वसंवेदनेऽपि, विकल्पानतिवृत्तेः । - अष्टसहस्त्रीतात्पर्यविवरणम् साध्याविशेषो, लिङ्गज्ञानत्वेनैवानुमितिहेतुत्वात्, तद्ज्ञानज्ञानत्वेनातत्त्वादित्यपि वक्तुं साम्प्रतम्, साध्याप्रसिद्ध्योक्तोत्तरत्वात्, अतीतानागतेष्वर्थेषु ज्ञानेन ज्ञातताया जनयितुमशक्यत्वात्, ज्ञानजन्यज्ञाततायां मानाभावाच्च, अन्यथेष्टताकृततादेरपीच्छाकृत्यादिजन्यस्य सिद्ध्यापत्तेरिति दिग् । आत्मान्तरवदिति न च स्वीयसुखदुःखसाक्षात्कारत्वे हर्षविषादादिहेतुत्वाद् अदोषः, अविदिततत्साक्षात्कारस्य निर्विकल्पकतुल्यत्वेनातथात्वात्, सुखदुःखज्ञानसंवेदनत्वेन हेतुत्वौचित्यात्, सर्वदा स्वप्नावस्थावज्जाग्रद्दशायामपि, आवरणविगत १. विगम इति अष्टसहस्रीसम्मतः पाठः ।
SR No.009090
Book TitleAshtasahastritatparya Vivaranam Part 2
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherPravachan Prakashan Puna
Publication Year2004
Total Pages294
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Philosophy
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy