SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ द्वितीयो भाग: [ परि० ५ - का० ७५ ] अपेक्षैकान्तादिप्रबलगरलोद्रेकदलिनी, प्रवृद्धानेकान्तामृतरसनिषेकानवरतम् । प्रवृत्ता वागेषा सकलविकलादेशवशतः, समन्ताद्भद्रं वो दिशतु मुनिपस्यामलमतेः ॥ [शिखरिणी] । इत्याप्तमीमांसालङ्कृतौ पञ्चमः परिच्छेदः । अष्टसहस्त्रीतात्पर्यविवरणम् बाह्ये चाभ्यन्तरे हेतौ निश्चयव्यवहारयोः । प्रत्यक्षे च परोक्षे च विशेषो यत्कृतोऽखिलः ॥३॥ अपेक्षाद्येकान्तप्रशमजसमत्वामृतरसोल्लसच्चेतोवृत्तिर्यदमलगुणं पश्यति यमी । तमीशं स्याद्वादप्रणयनसमुज्जीवितजग ज्जनं वन्दे मन्देतरभविकसन्देहदलनम् ॥४॥ [ शिखरिणी] ५६३ इति श्रीमदकब्बरसुरत्राणप्रदत्तजगद्गुरुबिरुदधारकभट्टारकश्रीहीरविजयसूरीश्वरशिष्य मुख्यमहोपाध्याय श्रीकल्याणविजयगणिशिष्यावतंसपण्डित श्रीलाभविजयगणि शिष्याग्रेसरपण्डितश्रीजितविजयगणिसतीर्थ्यालङ्कार पण्डितश्रीनयविजयगणिचरणकमलचञ्चरीकेण पण्डित श्रीपद्मविजयगणिसहोदरेण महोपाध्यायश्रीयशोविजयगणिना विरचितेऽष्टसहस्त्रीतात्पर्यविवरणे पञ्चमः परिच्छेदः सम्पूर्णः ॥
SR No.009090
Book TitleAshtasahastritatparya Vivaranam Part 2
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherPravachan Prakashan Puna
Publication Year2004
Total Pages294
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Philosophy
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy