SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ अष्टसहस्त्रीतात्पर्यविवरणम् ( भा० ) तस्यानपेक्षापक्षेऽपि नान्वयव्यतिरेकौ स्यातां, भेदाभेदयोरन्योन्यापेक्षात्मकत्वाद्विशेषेतरभावस्य । ५६० अन्वयो हि सामान्यं, व्यतिरेको विशेषः । तौ च परस्परापेक्षौ व्यवतिष्ठेते । तयोरनापेक्षिकसिद्धौ च न सामान्यविशेषता । प्रतिनियतबुद्धिविषययोरपि प्रतिनियतपदार्थता स्यान्नीलपीतवत् । न ह्यभेदो भेदनिरपेक्षः प्रतिनियतान्वयबुद्धिविषयोऽस्ति, नापि भेदो जातुचिदभेदनिरपेक्षः प्रतिनियतव्यतिरेकबुद्धिविषयः सम्भाव्यते क्वचिदेकव्यक्तेरपि प्रथमदर्शनकाले तबुद्धिविषयत्वप्रसङ्गात् । तदनेन प्रतिनियतबुद्धिविषयत्वस्य हेतोर्विरुद्धत्वं प्रतिपादितं तस्य कथञ्चिदापेक्षिकत्वेन व्याप्तत्वात् प्रत्यक्षबुद्धिप्रतिभासित्ववत् । ततो नैतावेकान्तौ घटेते, वस्तुव्यवस्थानाभावानुषङ्गात् ॥७३॥ विरोधान्नोभयैकात्म्यं स्याद्वादन्यायविद्विषाम् । अवाच्यतैकान्तेऽप्युक्तिर्नावाच्यमिति युज्यते ॥७४॥ (भा०) अनन्तरैकान्तयोर्युगपद्विवक्षा मा भूद्विप्रतिषेधात् सदसदे कान्तवत् । स्याद्वादानाश्रयणात् (भा०) तथानभिधेयत्वैकान्तेऽपीति कृतं विस्तरेण । सदसत्त्वाभ्यामनभिधेयत्वैकान्तवद् इति ॥७४॥। कथञ्चिदापेक्षिकत्वेतरानेकान्तं प्रतिपक्षप्रतिक्षेपसामर्थ्यात्सिद्धमपि दुरारेकापा करणार्थमाचक्षते अष्टसहस्त्रीतात्पर्यविवरणम् कान्तो=धर्मधर्म्यादीनामपेक्षाबुद्धिग्राह्यत्वैकान्तः । तस्य कथञ्चिदिति धर्मधर्मित्वादिना प्रतिनियतबुद्धिविषयत्वस्यापेक्षिकत्वेन व्याप्तत्वादित्यर्थः । प्रत्यक्षबुद्धिप्रतिभासित्ववदिति प्रत्यक्षबुद्धिप्रतिभातदूरत्वासन्नत्ववदित्यर्थः ॥७३॥
SR No.009090
Book TitleAshtasahastritatparya Vivaranam Part 2
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherPravachan Prakashan Puna
Publication Year2004
Total Pages294
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Philosophy
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy