SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ अष्टसहस्त्रीतात्पर्यविवरणम् नाप्यस्खलबुद्धिप्रतिभासभेदाभेदाभ्यामन्यत्तत्साधनं, यत्प्रकारान्तरं स्यात् । (भा०) ततः कारिकाद्वयेन सामान्यविशेषात्मानमर्थं संहृत्य तत्रापेक्षानपेक्षकान्तप्रतिक्षेपायाह भगवान् वास्तवमेव इति । स्यान्नानात्वमेव स्वलक्षणभेदात् । स्यादेकत्वमेवाशक्यविवेचनत्वात् । स्यादुभयमेव क्रमार्पितद्वयात् । स्यादवक्तव्यमेव सहार्पितद्वयाद्वक्तुमशक्यत्वात् । स्यान्नानात्वावक्तव्यमेव विरुद्धधर्माध्याससहार्पितद्वयात् । स्यादेकत्वावक्तव्यमेव, अशक्यविवेचनसहार्पितद्वयात् । स्यादुभयावक्तव्यमेव क्रमाक्रमार्पितद्वयात् । इति सप्तभङ्गीप्रक्रिया दृष्टेष्टाविरुद्धावबोद्धव्या पूर्ववत् । कार्यादेर्भेद एव स्फुटमिह नियतः सर्वथा कारणादेरित्यायेकान्तवादोद्धततरमतयः शान्ततामाश्रयन्ति । प्रायो यस्योपदेशादविघटितनयान्मानमूलादलझ्यात्, स्वामी जीयात् स शश्वत्प्रथिततरयतीशोऽकलङ्कोरुकीर्तिः ॥ [स्रग्धरा] इत्याप्तमीमांसालङ्कृतौ चतुर्थः परिच्छेदः ॥४॥ अष्टसहस्रीतात्पर्यविवरणम् । प्रतिभासभेदातिरिक्तप्रकाराभावादित्यर्थः । शिष्टं स्पष्टम् ॥७१-७२।। कार्योपादानयोर्वा ननु गुणगुणिनोर्व्यक्तिजात्योरनन्यान्यत्वैकान्तान्धकारैर्जगदिदमखिलं नीतमान्ध्यं समन्तात् । व्यक्तस्याद्वादमार्गाः प्रतिहतकुमतोलूकनेत्रप्रचारास्तत्प्रध्वंसाय सज्जा भुवनगुरुगिरः सूर्यभासो जयन्ति ॥१॥ (स्रग्धरा) इति श्रीमदकब्बरसुरत्राणप्रदत्तजगद्गुरुबिरुदधारकभट्टारकश्रीहीरविजयसूरीश्वरशिष्य मुख्यमहोपाध्यायश्रीकल्याणविजयगणिशिष्यावतंसपण्डितश्रीलाभविजयगणि शिष्याग्रेसरपण्डितश्रीजितविजयगणिसतीर्थ्यालङ्कार पण्डितश्रीनयविजयगणिचरणकमलचञ्चरीकेण पण्डितश्रीपद्मविजयगणिसहोदरेण महोपाध्यायश्रीयशोविजयगणिना विरचितेऽष्टसहस्त्रीतात्पर्यविवरणे ॥ चतुर्थः परिच्छेदः सम्पूर्णः ॥
SR No.009090
Book TitleAshtasahastritatparya Vivaranam Part 2
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherPravachan Prakashan Puna
Publication Year2004
Total Pages294
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Philosophy
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy