SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ द्वितीयो भागः [परि० ३-का० ६०] ५२५ एवं स्यादुभयमेव, स्यादवक्तव्यमेव, स्यान्नित्यावक्तव्यमेव, स्यादनित्यावक्तव्यमेव, स्यादुभयावक्तव्यमेवेत्यपि योजनीयम् । यथायोगमेतत्सप्तभङ्गीव्यवस्थापनप्रक्रियामपि योजयेन्नयप्रमाणापेक्षया सदायेकत्वादिसप्तभङ्गीप्रक्रियावत् ॥६०॥ नित्यायेकान्तगर्तप्रपतनविवशान्प्राणिनोऽनर्थसार्थादुद्धर्तुं नेतुमुच्चैः पदममलमलं मङ्गलानामलद्व्यम् । स्याद्वादन्यायवर्ती प्रथयदवितथार्थं वचः स्वामिनोऽदः प्रेक्षावत्त्वात्प्रवृत्तं जयतु विघटिताशेषमिथ्याप्रवादम् ॥१॥ [स्रग्धरा] इत्याप्तमीमांसालङ्कृतौ तृतीयः परिच्छेदः ॥३॥ - अष्टसहस्त्रीतात्पर्यविवरणम् धूमो वह्निव्याप्यो न रासभस्तथेत्यादेरित्थमेव न्यायाभियुक्तैरूपपादितत्वादिति शिवम् ॥६०॥ जगज्जैत्रं पत्रं शुचिनयपवित्रं किल मया, यमालम्ब्य न्यस्तं कुमतशतमस्तंगमयति । असौ नित्यानित्याद्यखिलगमभङ्गप्रणयने, पटिष्ठः स्याद्वादो दिशतु मुदमुज्जागरधियाम् ॥१॥ पवित्रं पत्रं मे विशदशतपत्रं श्रुतसुरी करक्रीडापात्रं प्रमदमतिमात्रं जनयतु । सुवाल्लभ्याः सभ्या इदमगुरुमाज्ञासिषुरितः प्रकृष्टं कल्पद्रोरपि फलमभ्यं कृतधियाम् ॥२॥ कृत्वा यत्नमनेकपण्डितवतीमध्यास्य काशीमभूद्भट्टाचार्यपुरन्दरेभ्य इह यस्तर्केष्वधीती भृशम् । तत्स्पर्द्धा वितनोति कोऽपि जटिलो यद्यल्पपाठस्मयी, तत्कि कुम्भकृता भविष्यति कलिः सार्द्धं त्रिलोकीकृतः ॥३॥ [शार्दूल०] अधीतास्तर्काः श्रीनयविजयविज्ञांहिभजनप्रसादाद् ये तेषां परिणतिफलं शासनरुचिः । इहांशेनाप्युच्चैरवगमफला या स्फुरति मे, तया धन्यं मन्ये जनुरखिलमन्यत् किमधिकम् ॥४॥ इति श्रीमदकब्बरसुरत्राणप्रदत्तजगद्गुरुबिरुदधारकभट्टारकश्रीहीरविजयसूरीश्वरशिष्य मुख्यमहोपाध्यायश्रीकल्याणविजयगणिशिष्यावतंसपण्डितश्रीलाभविजयगणि शिष्याग्रेसरपण्डितश्रीजितविजयगणिसतीर्थ्यालङ्कार पण्डितश्रीनयविजयगणिचरणकमलचञ्चरीकेण पण्डितश्रीपद्मविजयगणिसहोदरेण महोपाध्यायश्रीयशोविजयगणिना विरचितेऽष्टसहस्त्रीतात्पर्यविवरणे तृतीयः परिच्छेदः सम्पूर्णः ॥
SR No.009090
Book TitleAshtasahastritatparya Vivaranam Part 2
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherPravachan Prakashan Puna
Publication Year2004
Total Pages294
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Philosophy
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy