SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ अष्टसहस्त्रीतात्पर्यविवरणम् विशेषाभावात् । ततो देवागमनभोयानचामरादिविभूतिभिरिवान्तरङ्गबहिरङ्गविग्रहादिमहोदयेनापि न स्तोत्रं भगवान् परमात्माऽर्हति ॥२॥ - अष्टसहस्त्रीतात्पर्यविवरणम् नोक्तपक्षतात्वेन हेतुत्वं, सिद्धिसिसाधयिषाविरहयोविशेषणविशेष्यभावे विनिगमनाविरहेण गुरुतरानन्तकार्यकारणभावप्रसङ्गात्, सत्यां सिसाधयिषायां त्रिचतुरक्षणव्यवधानेन सिद्धिपरामर्शसद्भावेऽनुमित्यनुदयप्रसङ्गाच्च, तदा सिसाधयिषाविरहविशिष्टसिद्धिसत्त्वादुपयोगस्य तु दीर्घकालिकस्यानुगतस्याभ्युपगमान्नानुभूयमानानुमित्यपलाप इति । एतेन सिद्धिपरामर्शसत्त्वे यत्किञ्चिज्ज्ञानं जायतामितीच्छायामप्यननुमितेः प्रत्यक्षातिरिक्तज्ञानं जायतामितीच्छायां चानुमितेः सिसाधयिषाविशेषविरहनिवेशक्लेशोऽपि निरस्तः । यथाकार्यदर्शनं विलक्षणोपयोगस्य कल्पनेनानतिप्रसङ्गात, तल्लिङकानमितौ तल्लिङ्गकोपयोगस्य विशिष्य हेतुत्वाच्च न धूमपरामर्शसत्त्वे आलोकेन वह्निमनमिनुयामितीच्छायामप्यनुमितिः । अथ पर्वतो वह्निमानित्यनुमितौ सत्यां पर्वते वक़्यनुमानोपयोगस्याभावात् तत्र सिद्धेः प्रतिबन्धकत्वापेक्षयानुमितावेव तत्कल्पनं न्याय्यमिति चेत्, न, साध्यसन्देहसिसाधयिषान्यतरानुगतस्यैवानुमानोपयोगस्य कल्पनात्, घनगजितेन मेघानुमानस्थलेऽप्यव्यक्तसाध्यसंशयकल्पनात्, अस्तु वा गजितेन मेघज्ञानं प्रातिभमेव, अप्रतिभस्य किं गर्जतीति संशयस्यैवोदयात्, अन्यथानुपपत्तिग्रहापेक्षत्वे तु तस्य तत्स्थलीयस्य केवलान्यथानुपपत्तिग्रहस्यैवानुमानोपयोगत्वम्, क्वचित् सिसाधयिषाविघटकत्वेऽपि सिद्धेरनुमानोपयोगप्रतिबन्धकत्वे तु मानाभावः । तेन पर्वतस्तेजस्वी पाषाणमयो वह्निमानिति ज्ञानसत्त्वेऽप्यनुमितेर्न विरोधः, अतदाकारसिद्ध्या तदाकारसिसाधयिषाया अविघटनात्, यत्रायं पुरुषो नवेति संशयानन्तरं पुरुषत्वव्याप्यकरादिमानिति ज्ञानं तत्र विनानुमित्सां प्रत्यक्षमेवोत्पद्यते नानुमितिरित्यनुमितावनुमित्साविरहविशिष्टसमानविषयकप्रत्यक्षसामग्र्याः कामिनीजिज्ञासावत् स्वातन्त्र्येण प्रतिबन्धकत्वं कल्प्यत इत्यप्ययुक्तम्, करादिमत्त्वादनेन पुरुषेण भाव्यमितीहात्मकप्रत्यक्षोपयोगसत्त्वेऽनुमितेरापत्त्ययोगात्, भ्रमसंशयोत्तरप्रत्यक्षत्वावच्छिन्नं प्रति विशेषदर्शनस्य कारणत्वकल्पनापेक्षया प्रत्यक्षत्वावच्छिन्ने ईहात्वेन हेतुतायामेव लाघवमित्यस्यार्थस्यास्माभिः ज्ञानबिन्द्वादौ विवेचितत्वात् । यत्र च करादिमत्त्वावच्छेदेनोहात्मकप्रमाणेन पुरुषत्वव्याप्तिग्रहस्तत्रानुमानोपयोगेन करादिमत्त्वान्यथानुपपत्त्या पुरुषत्वानुमितेरेवाभ्युपगमात् । एतेन भिन्नविषयकप्रत्यक्षेऽनुमितिसामग्रीप्रतिबन्धकत्वकल्पनमपि अपास्तम् । परामर्शानन्तरं पक्षादिप्रत्यक्षस्यावग्रहाद्यात्मकप्रत्यक्षोपयोगाभावादेवानापत्तेः, तत्तदुपयोगव्यक्तौ
SR No.009089
Book TitleAshtasahastritatparya Vivaranam Part 1
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherPravachan Prakashan Puna
Publication Year2004
Total Pages450
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Philosophy
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy