SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ प्रथमो भागः [परि०१-का. १६] ३७१ पोहोऽर्थः । एतेनातत्कार्यकारणव्यावृत्तिरेकप्रत्यवमर्शादिज्ञानादेकार्थसाधने हेतुरत्यन्तभेदेऽपीन्द्रियादिवत्समुदितेतरगुडूच्यादिवच्च ज्वरोपशमनादाविति वदन्निराकृतः, सर्वथा ततो वस्तुनि प्रवृत्त्ययोगात् । (भा०) समयादर्शिनोऽपि क्वचिदन्वयबुद्ध्यभिधानव्यवहारोऽतत्कार्यकारणव्यतिरेकव्यवस्थायां गुडूच्याद्युदाहरणप्रक्लृप्ति विपर्यासयति, तस्य वस्तुभूतार्थसादृश्यपरिणामसाधनत्वात् । ___न हि गुडूच्यादयो ज्वरोपशमनशक्तिसमानपरिणामाभावे ज्वरोपशमहेतवो न पुनर्दधित्रपुषादयोऽपीति शक्यव्यवस्थं, चक्षुरादयो वा रूपज्ञानहेतवस्तज्जननशक्तिसमानपरिणामविरहिणोऽपि न पुना रसनादय इति निर्निबन्धना व्यवस्थितिः । अतत्कार्यकारणव्यावृत्तिनिबन्धना सेति चेत्, कथं तत्कारणकार्यजन्यजनकशक्तिसमानपरिणामाभावेऽपि केषाञ्चिदतत्कारणकार्यव्यावृत्तिः सिद्धयेदिति प्रकृतमुदाहरणं कर्कादिव्यक्तीनामश्वत्वादिप्रत्ययं तथा समानपरिणामहेतुकं साधयति ? इति विपर्याससाधनमन्यापोहवादिनाम् । ततोऽमीषामन्यापोहसामान्यमसदवक्तव्यमेव । - अष्टसहस्रीतात्पर्यविवरणम् एतेन= वस्तुदर्शनस्य स्वतः स्वरूपपरिनिष्ठितत्वव्यवस्थापनेन, अतत्कार्यकारणव्यावृत्तिः=अगोव्यावृत्तिः, एकप्रत्यवमर्शादिज्ञानात् गौौरित्याद्यनुगतानुसन्धानात्, एकार्थसाधने एकव्यवहारसम्पादने, अत्यन्तभेदेऽपीति तस्याः कल्पितत्वेनार्थादभेदासहिष्णुभेदेऽपीत्यर्थः । इन्द्रियादिवत् रूपादिज्ञाने चक्षुरादिवत्, ज्वरोपशमनादौ समुदिता इतरे शुण्ठ्यादय औषधविशेषा यत्र तादृशा ये गुडूच्यादयस्तद्वच्चेति योजनीयम् । अन्वयव्यतिरेकानुविधानं हि हेतुहेतुमद्भावे प्रयोजकं न त्वभेदोऽपीति भावः । समयादर्शिनोऽपि=अतत्कार्यकरणव्यावृत्तौ सङ्केतादर्शिनोऽपि, दर्शनपदं ज्ञानमात्रोपलक्षणम्, अन्वयबुद्ध्यभिधानव्यवहारः अयं गौरयं गौरित्याद्यभिलापात्मा व्यवहारः, अतकार्यकारणव्यतिरेकव्यवस्थायाम्=अतत्कार्यकरणव्यावृत्तेरेकार्थसाधनहेतुत्वनियमे, विपर्यासयति वैधापादनेन विघटयतीति भाष्याक्षरार्थः । वृत्तौ तस्येति तथा च गुडूच्यादेचरोपशमनादौ वस्तुभूतशक्तिसमानपरिणामेन हेतुत्वम्, अन्यापोहस्य तु कल्पनामात्रनिर्वृत्तत्वेन तदभावान्न तथेति व्यक्तो विपर्यास इत्युक्तं भवति । कर्कादिव्यक्तीनां कर्कादिविशेषाणाम्, 'अश्वादिप्रत्ययम्=अश्वाद्यनुगतप्रत्ययम्, तथा समानपरिणामहेतुकं= १. अश्वत्वादि इति अष्टसहस्रीसम्मतः पाठः ।
SR No.009089
Book TitleAshtasahastritatparya Vivaranam Part 1
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherPravachan Prakashan Puna
Publication Year2004
Total Pages450
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Philosophy
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy