SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ ३६४ अष्टसहस्त्रीतात्पर्यविवरणम् चाश्रित्य स्यादसदवक्तव्यमेव सर्वमिति वचनव्यवहारः । व्यस्तौ क्रमार्पितौ समस्तौ सहापितौ द्रव्यपर्यायौ समाश्रित्य स्यात्सदसदवक्तव्यमेव सर्वमिति शब्दप्रवृत्तिः स्याद्वादाश्रयणव्याख्यानादेवमेव चरमभङ्गत्रयस्य व्यवस्थानात् । परमतापेक्षया तु सत्सामान्यमन्वयि द्रव्यमाश्रित्य सदवक्तव्यमेव, स्वलक्षणलक्षणं विशेषं पर्यायमाश्रित्यान्यापोहसामान्यमसदवक्तव्यमेव, सामान्यविशेषौ परस्परमत्यन्तभिन्नौ - अष्टसहस्रीतात्पर्यविवरणम् सहार्पितधर्मद्वयद्वारकद्वित्वान्वयस्य निराकाङ्क्षत्वादेवावक्तव्यत्वप्रयोगसङ्गतिः 'नाणदंसणट्ठयाए दुवे अहं [ ] इत्यादिवत्, सत्त्वासत्त्वादिनोपचरितं द्वित्वमादाय प्रवृत्तायां सप्तभङ्ग्यामपि निरवच्छिन्ने सत्त्वासत्त्वे एव तदवच्छेदके, न तु सहार्पितत्वविशिष्टे इति । प्रकृते तादृशतदवच्छेदेनान्तर्निगीर्णद्वित्वाश्रयबोधनाशक्तेः स्यादवक्तव्यत्वपक्षसाम्राज्यात् ।एतेन एकपदजन्यसत्त्वासत्त्वोभयप्रकारकशाब्दबोधविषयत्वं न स्यादवक्तव्यत्वशब्दार्थः, प्रतियोग्यप्रसिद्ध्या तदभावाप्रसिद्धेरिति अपास्तम्, सहार्पितसत्त्वासत्त्वोभयावच्छेदेन तृतीयभङ्गजन्यशाब्दबोधविषयत्वाभावस्यैव स्यादवक्तव्यपदार्थत्वात्, तदादिपदेन पुष्पदन्तादिपदप्रतिपाद्यस्येव सहार्पितसत्त्वासत्त्वोभयाश्रयस्य बुद्धिविषयतावच्छेदकावच्छिन्ने गृहीतशक्तिकेनापि तत्तद्धर्माशे उद्बुद्धसंस्कारमहिम्नोपस्थितौ शाब्दबोधविषयत्वाद् अव्याप्तिवारणाय शाब्दबोधे तृतीयभङ्गजन्यत्वोक्तिः, प्रातिस्विकधर्मावच्छिन्नप्रकारताद्वयनिरूपितमुख्यविशेष्यताशालित्वं तदर्थः, विपरीतसङ्केतजन्यशाब्दभ्रमे तूक्तोभयधर्मपर्याप्तावच्छेदकताकैकप्रकारतानिरूपितविशेष्यताशालित्वेन दोषाभावादिति नव्यतर्कपरिष्कृतः पन्थाः । एतेन एव गङ्गायां मत्स्यघोषावित्यत्रेव क्वचिदेकदा वृत्तिद्वयस्याप्यविरोधात् सदादिपदेनैव शक्त्या सत्त्वादेर्लक्षणया चासत्त्वादेरुपस्थितिसम्भवात सहार्पितसत्त्वासत्त्वोभयप्रकारकशाब्दबोधसम्भवे गतमवक्तव्यत्वेनेति निरस्तम् । तृतीयभङ्गजन्यपदमहिम्नैव शक्त्येत्यस्याप्याक्षेपादिति दिग् । ॥ सामान्यविशेषभेदाभेदवादः ॥ __ शेषं भङ्गत्रयं व्यस्तसमस्तद्रव्यपर्यायार्पणाहेतुकं सुबोधम् । स्याद्वादाश्रयेति उक्तार्पणाभेदस्य स्याद्वादतात्पर्यज्ञं प्रत्येव सम्भवादित्यर्थः । परमतापेक्षयात्विति पक्षत्रयमत्र नैयायिकसौगतमताश्रितं व्याख्येयम् । परैर्यत्केवलं सदुच्यते यच्चासत् यच्च सदसत् तत्सर्वमवक्तव्यमित्युद्देश्यविधेयभावे तात्पर्यम्, भङ्गत्रयेऽप्युद्देश्यस्य प्रसिद्धिः परमताद्; विधेयस्य जैनागमात्, यौगादिभिः सदादिव्यवहारविषयीकृतमस्माभिरवक्तव्यत्वव्यवहार १. ज्ञानदर्शनार्थतया द्वौ अहं ।
SR No.009089
Book TitleAshtasahastritatparya Vivaranam Part 1
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherPravachan Prakashan Puna
Publication Year2004
Total Pages450
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Philosophy
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy