SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ अष्टसहस्त्रीतात्पर्यविवरणम् [स्वरूपे स्वरूपान्तराभावाद् वस्तुव्यवस्था कथं भवेदिति नैयायिकस्यारेकायां विचारः ] नन्वेवं स्वरूपादीनां स्वरूपाद्यन्तरस्याभावात्कथं व्यवस्था स्यात्, भावे वानवस्थाप्रसङ्गात् । सुदूरमपि गत्वा स्वरूपाद्यन्तराभावेऽपि कस्यचिद्व्यवस्थायां किमनया प्रक्रियया स्वगृहमान्यया ? यथाप्रतीति वस्तुव्यवस्थोपपत्तेरिति कश्चित्सोऽपि वस्तुस्वरूपपरीक्षानभिमुखो वस्तुप्रतीतेरेव तथा प्ररूपयितुमुपक्रान्तत्वात् । अन्यथा नानानिरङ्कुशविप्रतिपत्तीनां निवारयितुमशक्यत्वात् । वस्तुनो हि यथैवाबाधिता प्रतीतिस्तथैव स्वरूपं न च तत्ततोऽन्यदेव प्रतीयते येन स्वरूपान्तरमपेक्षेत । तथा प्रतीतौ वा तदुपगमेऽपि नानवस्था, यत्राप्रतिपत्तिस्तत्र व्यवस्थोपपत्तेः । ३४४ [जीवादिवस्तुनः स्वरूपं किम् ? ] तत्र जीवस्य तावत्सामान्येनोपयोगः स्वरूपं तस्य तल्लक्षणत्वात्, उपयोग लक्षणम्, इति वचनात् [तत्त्वार्थसूत्रम् - २.८] । ततोऽन्योऽनुपयोगः पररूपम् । ताभ्यां सदसत्त्वे प्रतीयेते । तदुपयोगस्यापि विशेषतो ज्ञानस्य स्वार्थाकारव्यवसायः स्वरूपम् । दर्शनस्यानाकारग्रहणं स्वरूपम् । ज्ञानस्यापि परोक्षस्यावैशद्यं स्वरूपम् । प्रत्यक्षस्य वैशद्यं स्वरूपम् । दर्शनस्यापि चक्षुरचक्षुर्निमित्तस्य चक्षुराद्यालोचनं अष्टसहस्त्रीतात्पर्यविवरणम् द्वित्वबुद्धेः प्रमात्वं तु स्याद्वादापेक्षया लोकोत्तरमिति न दोषः, लौकिकप्रमाप्रकारस्यैव प्राग् लक्षितत्वादिति दिग् । स्वरूपादौ स्वरूपाद्यन्तराभावात्कथं सत्त्वम् ? तद्भावे वा कथं नानवस्था ? इति नैयायिकादिः शङ्कते - नन्वेवमित्यादिना । स्वरूपादीनां धर्मिसत्त्वादिनियामकानां स्वसत्त्वादिनियामकत्वस्य धर्मिग्राहकमानेन स्वत एव सिद्धत्वान्नयविशेषेण स्वरूपान्तरादिग्रहस्यापि जिज्ञासाधीनत्वाद् यत्रैव न सा तत्रैव विश्रान्तेर्नानवस्थेति समाधत्तेसोऽपीत्यादिना । वस्तुनो हीति तथा च स्वरूपादिघटितमूर्तेरेव सत्त्वादेः प्रतीतेर्भेदनयेऽपि च यथाजिज्ञासं व्यवस्थानान्नानवस्थेति फलितम् । एतेन सत्त्वं नावच्छिन्नम्, अनवच्छिन्नस्यैव सत्तामहासामान्यस्य सर्वैः प्रतीयमानत्वात्, तत्र स्वरूपादेरवच्छेदकस्य कल्पने च तस्यापि सप्तभङ्गीनयेनानवस्थिततद्व्यवस्थार्थमप्यवच्छेदकान्तरमपेक्षणीयम् तत्राप्यन्यदित्येवं ज्ञप्तिप्रतिपन्थिन्यनवस्था दुरुद्धरेति न कथमपि सप्तभङ्गीक्रमेण शाब्दबोधोपपत्तिरिति पशुपालप्रलपितम् अपास्तम् । अनर्पितदृष्ट्याऽनवच्छिन्नेऽप्यर्पितदृष्ट्या
SR No.009089
Book TitleAshtasahastritatparya Vivaranam Part 1
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherPravachan Prakashan Puna
Publication Year2004
Total Pages450
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Philosophy
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy