SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ ३१२ अष्टसहस्त्रीतात्पर्यविवरणम् (भा०) नाम्नो नामान्तरेण विनापि स्मृतौ केवलार्थव्यवसायः किं न स्यात् ? । स्वाभिधानविशेषापेक्षा एवार्था निश्चयैर्व्यवसीयन्ते इत्येकान्तस्य त्यागात्, नाम्नः स्वलक्षणस्यापि स्वाभिधानविशेषानपेक्षस्यैव व्यवसायवचनात् । तदवचने वा न क्वचिद्व्यवसाय: स्यात्, नामतदंशानामव्यवसाये नामार्थव्यवसायायोगात् । [बौद्धमते निर्विकल्पदर्शनस्याव्यवसायात्मकत्वे सकलप्रमाणप्रमेयविलोप: स्यात्] दर्शनेनाव्यवसायात्मना दृष्टस्याप्यदृष्टकल्पत्वात सकलप्रमाणाभावः, प्रत्यक्षस्याभावेऽनुमानोत्थानाभावात् । तत एव सकलप्रमेयापायः, प्रमाणापाये प्रमेयव्यवस्थानुपपत्तेः । इत्यप्रमाणप्रमेयत्वमशेषस्यावश्यमनुषज्येत । तदुक्तं न्यायविनिश्चये अभिलापतदंशानामभिलापविवेकतः । अप्रमाणप्रमेयत्वमवश्यमनुषज्यते ॥ इति, [१.६] अभिलापविवेकत इत्यभिलापरहितत्वादिति व्याख्यानात् । प्रथमपक्षोपक्षिप्तदोषपरिजिहीर्षया (भा०) तन्नामान्तरपरिकल्पनायामनवस्था । नामतदंशानामपि नामान्तरस्मृतौ हि व्यवसाये नामान्तरतदंशानामपि व्यवसायः स्वनामान्तरस्मतौ सत्यामित्यनवस्था स्यात् । तथा च तदेवाप्रमाणप्रमेयत्वमवश्यमनुषज्येत । अत्रापीयमेव कारिका योज्या, अभिलापविवेकतः इत्यभिलापनिश्चयत इति व्याख्यानात् । प्रतिपादितदोषभयात् ।। (भा०) तदयमशब्दं सामान्य व्यवस्यन् स्वलक्षणमपि व्यवस्येत् । सामान्यलक्षणस्वलक्षणयोर्हि (भा०) भेदाभावात् । अष्टसहस्त्रीतात्पर्यविवरणम् तदयमशब्दमिति अशब्दं शब्दयोजनारहितं, व्यवस्यन्=निश्चिन्वन्, व्यवस्येत्=
SR No.009089
Book TitleAshtasahastritatparya Vivaranam Part 1
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherPravachan Prakashan Puna
Publication Year2004
Total Pages450
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Philosophy
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy