SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ ३१० अष्टसहस्त्रीतात्पर्यविवरणम् सिद्धिः । न च सौगतो दर्शनस्याभिलापसंसर्गमुपैति । (भा० ) तस्मादयं किञ्चित्पश्यन् तत्सदृशं पूर्वं दृष्टं न स्मर्तृमर्हति तन्नामविशेषास्मरणात् । तदस्मरन्नैव तदभिधानं प्रतिपद्यते । तदप्रतिपत्तौ तेन तन्न योजयति । तदयोजयन्नाध्यवस्यतीति न क्वचिद्विकल्पः शब्दो वेत्यविकल्पाभिधानं जगत्स्यात् । ननु च नामसंश्रयस्य विकल्पस्य प्रत्यात्मवेद्यत्वात् सर्वेषामभिधानस्य च श्रोत्रबुद्धौ प्रतिभासनात्कथमविकल्पाभिधानं जगदापद्यतेति चेत्, न तत्राप्यध्यवसायासम्भवात् । न च स्वसंवेदनेनेन्द्रियप्रत्यक्षेण वा निर्विकल्पकेन विकल्पोऽभिधानं वा गृहीतं नाम, अतिप्रसङ्गात् । (भा० ) तथा हि-बहिरन्तर्वा गृहीतमप्यगृहीतकल्पं क्षणक्षयस्वलक्षणसंवेदनादिवत् । तथा चायातमचेतनत्वं जगतः । - अष्टसहस्त्रीतात्पर्यविवरणम् वदिति प्रयोगस्य सुकरत्वादिति भावः । किञ्चाविकल्पाध्यक्षाभ्युपगमे स्मरणानुपपत्तिरपि सौगतस्येत्याह-न च सौगत इत्यादि । तत्सदृशमिति सदृशार्थदर्शनेन संस्कारोबोधसौलभ्यार्थमुक्तम् । तन्नामविशेषास्मरणात् पूर्वप्रतिपन्ननामाऽस्मरणात्, न च नामविनिर्मुक्तमेव स्मरणं भविष्यतीति शङ्कनीयम्, तस्याप्रसिद्धरित्यर्थः । नैवेति इदमस्य नामेति न प्रतिपद्यत इत्यर्थः । तदप्रतिपत्तौ तेन नाम्ना न तद्वाच्यं योजयति इदमेतत्पदवाच्यमिति । ततो नाध्यवस्यति तदेतदिति शब्देन नाभिलापं शक्नोतीत्यर्थः । तदादेर्बुद्धिस्थत्वादिनाऽनुगतस्य तद्घटत्वादेरिव तद्घटादिनाम्नोऽपि शक्यतावच्छेदकत्वात्, एवं च न क्वचिद्विकल्पशाब्दज्ञानं वाच्यतासम्बन्धेन नामविषयकमध्यक्षपृष्ठभाविज्ञानं वा शब्दो वा तज्जन्यजनकान्यतमः सम्भवेदित्यविकल्पाभिधानस्य जगत आपत्तिः । ननु नामग्रहणं तावत् पटुकरणस्य श्रोत्रेन्द्रियादेव सम्पद्यते, ततोऽर्थज्ञानं च व्युत्पन्नस्य वक्त्रभिप्रायावच्छेदकत्वेनानुमितिरूपमेवेति नोक्तापत्तिरिति आशङ्कते-ननु चेति । नामसंश्रयस्येत्यत्र नाम संश्रयः कारणमस्येति बहुव्रीहिः । दूषयति-तत्रापीत्यादिना । तत्रापि विकल्पश्रोत्रबुद्ध्योरपि, अध्यवसायासम्भवात् तत्त्वेन निश्चयासम्भवादित्यर्थः । तदेतन्नाम्नोः सह स्मृतिपक्षे १. नाध्यवस्यति इति अष्टसहस्रीसम्मतः पाठः ।
SR No.009089
Book TitleAshtasahastritatparya Vivaranam Part 1
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherPravachan Prakashan Puna
Publication Year2004
Total Pages450
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Philosophy
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy