SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ २९४ अष्टसहस्त्रीतात्पर्यविवरणम् (भा०) सत्तैव विशेष्यते द्रव्यक्षेत्रकालभावात्मना । तस्या एव तथा व्यवहारविषयत्वघटनात् । [सत्तायामपि एकाशीतिभेदा घटन्ते] (भा०) ततः परस्परव्यावृत्तस्वभावाननन्तगुणपर्यायान्प्रतिक्षणमासादयन्ती सत्तैव तिष्ठतीत्यादि योज्यं तस्या अप्येकाशीतिविकल्पत्वोपपत्तेः । [विश्वव्यापिन्या महासत्तायाः स्पष्टीकरणम्] ( भा०) तथा भेदानेव सन्द्रवन्तीत्यादि प्रतिपत्तव्यम् । क्षितान् कुर्वन्ती कलयन्ती भवन्ती च सत्तैव तिष्ठतीत्यादियोजनायाः सम्भवात् । तथा चोक्तं सत्ता सकलपदार्था सविश्वरूपा त्वनन्तपर्याया । स्थितिभङ्गोत्पादार्था सप्रतिपक्षा भवत्येका ॥ इति । [ [पर्यायार्थिकनयापेक्षयैवेतरेतराभावः सम्भवति न तु द्रव्यार्थिकनयापेक्षया] तदेवं पर्यायार्थिकनयप्राधान्याद् द्रव्यार्थिकनयगुणभावात्सर्वस्य स्वभावान्तरव्यावृत्तिः प्रसिद्धान्यापोहव्यतिक्रममपाकरोतीति किं नः प्रयासेन ? । [इतः पर्यन्तमितरेतराभावं प्रसाध्याधुनात्यन्ताभावं साधयन्त्याचार्याः] तथा केषाञ्चित्तत्त्वतो - अष्टसहस्त्रीतात्पर्यविवरणम् द्रव्यत्वादिविशेषितत्वेनोत्पत्त्यादिशालित्वात्तदाश्रिताः सर्वेऽपि भङ्गा अविरुद्धा इति भावः । न च विशेषणभेदेन पदार्थभेदे मानाभावाद् एतदनुपपत्तिः, विशिष्टाधारताभेदकल्पनापेक्षया विशिष्टभेदकल्पनस्यैव युक्तत्वात्, भेदाभेदवादे चानन्तपदार्थकल्पनागौरवाद्यनवकाशात् । सत्तेति सत्ता महासामान्यरूपा, सकलपदार्था सकलाः पदार्था विद्यन्ते आश्रयत्वेन यस्याः सा तथा । विश्वरूपैः=नानाप्रकारैः सहिता, तुर्विशेषणे, किं विशिनष्टि ? इत्याकाङ्क्षायामाह-अनन्तपर्याया=द्रव्यत्वाद्यनन्तविशेषणविशिष्टानन्तपर्यायैविशेषणभूतैर्विश्व
SR No.009089
Book TitleAshtasahastritatparya Vivaranam Part 1
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherPravachan Prakashan Puna
Publication Year2004
Total Pages450
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Philosophy
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy