SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ २९२ अष्टसहस्त्रीतात्पर्यविवरणम् तस्यान्वितेन रूपेण कालत्रयव्यापित्वादन्यथा त्रुट्यदेकान्ते सर्वथार्थक्रियाविरोधात् कूटस्थैकान्तवत् । ततो द्रव्यपर्यायात्मकं जीवादि वस्तु, क्रमयोगपद्याभ्यामर्थक्रियान्यथानुपपत्तेरिति प्रमाणोपपन्नम् । तथा च [कालत्रयापेक्षया जीवादिषु उत्पादव्ययध्रौव्यानां सिद्धिः] (भा०) स्थितिरेव स्थास्यत्युत्पत्स्यते विनक्ष्यति । सामर्थ्यात्स्थितोत्पन्ना विनष्टेति गम्यते । (भा०) विनाश एव स्थास्यत्युत्पत्स्यते विनश्यति । स्थित उत्पन्नो विनष्ट इति च गम्यते । (भा०) उत्पत्तिरेवोत्पस्त्यते विनक्ष्यति स्थास्यतीति न कुतश्चिदुपरमति । सोत्पन्ना विनष्टा स्थितेति गम्यते । स्थित्याद्याश्रयस्य वस्तुनोऽनाद्यनन्तत्वादनुपरमसिद्धेः स्थित्यादिपर्यायाणां कालत्रयापेक्षिणामनुपरमसिद्धिः, अन्यथा तस्यातल्लक्षणत्वप्रसङ्गात्सत्त्वविरोधात् । [उत्पादव्ययध्रौव्यापेक्षया वस्तुनि एकाशीतिभेदान् साधयन्ति] एतेन जीवादि वस्तु तिष्ठति स्थितं स्थास्यति, विनश्यति विनष्टं विनक्ष्यति, उत्पद्यते उत्पन्नमुत्पत्स्यते चेति प्रदर्शितं, कथञ्चित्तदभिन्नस्थित्या अष्टसहस्रीतात्पर्यविवरणम् तस्यान्वितेनेति तस्य=जीवादेरन्वितेन रूपेण किञ्चित्कालानुगतपर्यायेण, अन्यथा क्षणिकपक्षे त्रुट्यदेकान्ते विगच्छत एकान्ते, न कुतश्चिदुपरमतीति=न कुतोऽपि भङ्गान्निवर्त्तत इत्यर्थः । तिष्ठति स्थितमित्यादि स्थित्यादित्रयस्य सहवर्तिनः कालत्रयस्पर्शिद्रव्याभेदोपचारेण नव भङ्गाः प्रत्येकं स्थूलकालकृतवर्तमानत्वादिशालिस्थित्यादौ सूक्ष्मकालकृतावस्थाभेदेन नवेत्येकाशीतिर्भङ्गा भावनीयाः । यत्तु आद्यक्रियाप्रागभावं चरमक्रियाध्वंसं चादाय भविष्यत्वमतीतत्वं च वाच्यमिति न वर्तमानक्रियाकाले कालत्रयवाचिप्रत्ययप्रयोगसम्भव इति नैयायिकादीनां मतम्,
SR No.009089
Book TitleAshtasahastritatparya Vivaranam Part 1
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherPravachan Prakashan Puna
Publication Year2004
Total Pages450
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Philosophy
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy