SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ अष्टसहस्त्रीतात्पर्यविवरणम् दर्शनाभावादसत्यामपि सति घटे दर्शनसद्भावात् । इति न प्रत्यक्षमभावं प्रत्येति, तस्य सन्मात्रविषयत्वात्तत्रैव प्रमाणत्वोपपत्तेरव्यभिचारात् । २४४ [अनुमानप्रमाणेनाप्यभावस्य ज्ञानं भवतीति ब्रह्माद्वैतवादी ब्रूते ।] ( भा० ) सकलशक्तिविरहलक्षणस्य निरुपाख्यस्य स्वभावकार्यादेरभावात्कुतस्तत्प्रमितिः स्यादानुमानिकी ? न हि निरुपाख्यस्य स्वभावः कश्चित्सम्भवति, भावस्वभावत्वप्रसङ्गात् । नापि कार्यं तत एव । इति कुतः स्वभावात्कार्याद्वा हेतोस्तत्प्रमिति: ? अनुपलब्धिः पुनस्तस्यासिद्धिमेव व्यवस्थापयेदिति ततोऽपि न तत्प्रमितिः । भावानामनुपलब्धेस्तत्प्रमितिरित्यपि न सम्यक्, ततो भावान्तरस्वभावस्यैवाभावस्यावभासनात् । एतेन विरोधिलिङ्गान्निरुपाख्यस्याभावस्य प्रमितिरपास्ता । सदुपलम्भकप्रमाणपञ्चकनिवृत्तेस्तत्प्रमितिरित्यपि मिथ्या, तस्या अपि निरुपाख्यत्वे क्वचित्प्रमितिजननासम्भवात्, आत्मनः सदुपलम्भकप्रमाणपञ्चकरूपत्वेनापरिणामस्य प्रसज्यप्रतिषेधरूपस्य प्रमाणत्वविरोधात् । यदि पुनरन्यवस्तुविज्ञानरूपा तन्निवृत्तिस्तदा न ततो निरूपाख्यस्य प्रमितिः, वस्त्वन्तररूपस्यैवाभावस्य सिद्धेः । न च प्रकारान्तरमस्ति किञ्चित् इति कुतस्तत्प्रमिति: ? अष्टसहस्त्रीतात्पर्यविवरणम् सत्ताया असत्तायाश्च केवलाया धर्मिभासकसामग्र्यैव भानात्, घटाद्युपरक्ततद्व्यवहार एव घटादिज्ञानस्य हेतुत्वेन व्यवहारस्यैव सप्रतियोगिकत्वसिद्धेरिति दिग् । प्रदर्शितोऽयं प्रतियोग्यभावधीहेतुकार्यत्वविचारभूमा । अस्मिन्ननेकान्तमतिप्रवेशात् क्लेशावहः क्वापि न पक्षपातः ॥ अथ प्रकृतम्, अभावं भावभिन्नमनुपाख्यम् । अनुपलब्धेः=अभावानुपलब्धेः, व्यवस्थापयेत् प्रतिपत्तेति शेषः । अवभासनादिति शुद्धं भूतलमेव घटाभाव इत्येवं सार्वजनीनानुभवाद्धर्मिकल्पनात इत्यादि न्यायाच्चेति भावः । वस्त्वन्तररूपस्यैवेति अन्यवस्तुविज्ञानस्यान्यवस्तुविषयत्वादिति भावः । ननु एवं घटवदन्यभूतलं घटाभाव इति प्राप्तं तथा चान्यत्वान्योन्याभावस्य चिन्तायामतिरिक्ताभावसिद्धिरिति चेत्, न, कालभेदेन
SR No.009089
Book TitleAshtasahastritatparya Vivaranam Part 1
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherPravachan Prakashan Puna
Publication Year2004
Total Pages450
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Philosophy
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy