SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ २२९ प्रथमो भागः [परि०१-का०८] योगाचार: सौत्रान्तिको वा सर्वथा शून्यं संविदद्वैतं वानिच्छन् । (भा०) क्षणस्थायि कारणं स्वसत्तायां कार्यं कुर्वदभ्युपगच्छन् क्रमोत्पत्तिमुपरुणद्धि सकलजगदेकक्षणवृत्तिप्रसङ्गात् । कालान्तरे कार्यं कुर्वत्कारणं क्षणिकमभ्युपगच्छतां नायं दोष इति चेत्, न तेषामपि (भा०) कारणस्य कार्यकालप्राप्तौ क्षणभङ्गभङ्गानुषङ्गात्, तदप्राप्नुवतस्तत्कृतौ व्यलीककल्पनाविशेषेण कूटस्थानतिशायनात् । यथैव हि कूटस्थमपरिणामित्वात्क्रमयोगपद्याभ्यामर्थक्रियायामसमर्थमपि व्यलीककल्पनया क्रमाक्रमसमाक्रान्तकार्यपरम्परां कुर्वदभ्युपगम्यते नित्यैकान्तवादिभिः साङ्ख्यादिभिस्तथा क्षणिकमपि स्वसत्ताक्षणात्पूर्वं पश्चाच्चात्यन्तमसत्सर्वथार्थक्रियायामसामर्थ्यं प्रथयदपि संवृत्या क्रमाक्रमवृत्तिकार्यमालां अष्टसहस्त्रीतात्पर्यविवरणम् अप्रतिभासनात्=ब्रह्माद्वैतवत् वेदान्त्यभिमतसकलप्रपञ्चविनिर्मुक्तपरब्रह्मवत्, तेऽपि हि प्रपञ्चरहितब्रह्मविषयं विचारसाध्यं महावाक्यजन्यं प्रत्यक्षं स्वीकुर्वत एव, तद्वद् बौद्धबुद्धिपरमकाष्ठाप्राप्तं शून्यप्रत्यक्षमिति भावः । ब्रह्माद्वैतप्रत्यक्षं मिथ्या क्षणिकज्ञानाद्वैतप्रत्यक्षं सत्यमिति तु स्ववासनामात्रम् । 'कूटस्थानतिशायित्वमिति य एव नित्यैकान्तपक्षे दोषास्त एव क्षणिकपक्षेऽपीति भावः । किञ्च करणाकरणयोस्तज्जातीयस्य सतः सहकारिलाभालाभौ तन्त्रमित्यभ्युपगमे क्षणिकत्वं सिद्धयेत्, स चैकव्यक्तावप्यविरुद्धस्ततश्च तावनादृत्य कारणगतवैजात्यकल्पनमप्रामाणिकमन्यथा कारणवत्कार्येऽपि किञ्चिद्वैजात्यं स्यात्, यद्वतः कारणापेक्षा स्यान्न तु दृष्टजातीयस्येति शङ्कया न नियतप्रवृत्तिसिद्धिरेवं चावह्नेरपि धूमसम्भावनया गतं कार्यलिङ्गकेन, सङ्कीर्यते च कारणगता कुर्वद्रूपत्वाख्या विधिरूपा व्यावृत्तिरूपा वा जातिदण्डत्वादिना परस्परपरिहारवत्योश्च समावेशे गोत्वाश्वत्वयोरपि तथाभावप्रसङ्ग इति गतमनुपलब्धिलिङ्गके नापि क्वचिदपि विरोधासिद्धेस्ततो विपक्षे बाधकाभावात् स्वभावहेतुरप्यपास्तः । अथ अस्ति तत्, तथा हि वृक्षजनकपत्रकाण्डाद्यन्तर्भूता शिंशपासामग्री सा वृक्षत्वमतिपत्य भवन्ती स्वकारणमेवातिपतेदिति चेत्, तर्हि शिंशपासामग्र्यन्तर्भूता चलदलादि १. कूटस्थानतिशायनाद् इति अष्टसहस्रीसम्मतः पाठः ।
SR No.009089
Book TitleAshtasahastritatparya Vivaranam Part 1
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherPravachan Prakashan Puna
Publication Year2004
Total Pages450
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Philosophy
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy