SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ प्रथमो भाग: [ परि० १ - का० ६ ] तैरुररीकृतम्, न च तत्कारणः संसारः, तन्निवृत्तावपि संसारानिवृत्तेः । यन्निवृत्तावपि यन्न निवर्त्तते न तत्तन्मात्रकारणम् । यथा तक्षादिनिवृत्तावप्यनिवर्तमानं देवगृहादि न तन्मात्रकारणम् । मिथ्याज्ञाननिवृत्तावप्यनिवर्त्तमानश्च संसारः । तस्मान्न मिथ्याज्ञानमात्रकारणक इति । अत्र न हेतुरसिद्धः सम्यग्ज्ञानोत्पत्तौ मिथ्याज्ञाननिवृत्तावपि दोषानिवृत्तौ संसारानिवृत्तेः स्वयमभिधानात् । दोषाणां संसारकारणत्वावेदकागमस्वीकरणाच्च तन्मात्रं संसारकारणतत्त्वं न्यायागमविरुद्धं सिद्धम् । तदेवमन्येषां न्यायागमविरुद्धभाषित्वादर्हन्नेव युक्तिशास्त्राविरोधिवाक् सर्वज्ञो वीतरागश्च निश्चीयते, ततः स एव सकलशास्त्रादौ प्रेक्षावतां संस्तुत्यः । [बौद्धः शङ्कते यत् वीतरागोऽपि सरागवत् चेष्टां कर्तुं शक्नोति शरीरित्वात्, जैनाचार्या अस्य समाधानं कुर्वन्ते ] १८७ ये त्वाहुः-‘सतोऽपि यथार्थदर्शिनो वीतरागस्येदन्तया निश्चेतुमशक्तेस्तत्कार्यस्य व्यापारादेस्तद्व्यभिचारादवीतरागेऽपि दर्शनात्, सरागाणामपि वीतरागवच्चेष्टमानानामनिवारणान्न कस्यचित् स त्वमेवाप्त इति निर्णयः सम्भवति' इति तेषामपि, (भा०) विचित्राभिसम्बन्धतया व्यापारव्याहारादिसाङ्कर्येण क्वचिदप्यतिशयानिर्णये कैमर्थक्याद्विशेषेष्टिः, ज्ञानवतोऽपि विसंवादात्, क्व पुनराश्वासं लभेमहि ? न हि ज्ञानवतो वीतरागात्पुरुषाद्विसंवादः क्वचित्सम्भवति सुगतादावप्यनाश्वासप्रसङ्गात् तस्य कपिलादिभ्यो विशेषेष्टेरानर्थक्यप्रसङ्गात् । न च व्यापारव्याहाराकारविशेषाणां तत्र साङ्कर्यं सिद्ध्यति, विचित्राभिसन्धितानुपपत्तेः तस्याः पृथग्जने अष्टसहस्त्रीतात्पर्यविवरणम् साङ्ख्यानाम्, संवृत्या = उपचारमात्रेण, तत्कारणः = तन्मात्रकारणक:, तेन नोपक्रमोपसंहारविरोधः, कारणं चात्रोपादानरूपं बाह्यं तेन न वक्ष्यमाणव्याप्त्यनुपपत्तिः, सिद्धान्ते मिथ्याज्ञानाविरत्यादिनानासंसारोपादानाभ्युपगमेऽपि तद्विशिष्टात्मनः कारणस्यैकत्वान्न काप्याशङ्का, पर्यायार्थतया नानोपादानत्वस्य द्रव्यर्थतयैकोपादानत्वस्य चाविरोधादिति द्रष्टव्यम् । भाष्ये कैमर्थक्येति मत्वर्थीयाचा किमर्थेत्यर्थः । विशेषेष्टेर्विशेषणमेतद् द्रष्टव्यम् । तत्र=सुगतादौ, साङ्कर्यम् = अन्यत्र परिदृष्टजातीयत्वम्, विचित्राभिसन्धितानुपपत्तेरिति तथा च विचित्राभिसन्धित्वाभावाद् व्यापारादिसाङ्कर्याभावस्तद्विशेषाच्चातिशयः सर्वज्ञे
SR No.009089
Book TitleAshtasahastritatparya Vivaranam Part 1
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherPravachan Prakashan Puna
Publication Year2004
Total Pages450
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Philosophy
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy