SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ प्रथमो भागः [ परि० १-का. ५] ___ (भा०) वर्णानां नित्यत्वमकृतकत्वादिना सर्वगतानां यदि साधयति स्यादप्रसिद्धविशेषणः पक्षः इतरथानिष्टानुषङ्गः । कीदृक् पुनः सामान्यं नाम यदुभयदोषप्रसङ्गपरिहाराय कल्प्येत ? सर्वगतत्वसाधनेऽपि समानम् । तद्धि वर्णानाममूर्तानां साधयेन्मूर्तानां तदुभयसामान्यात्मनां वा ? यद्यमूर्तानां सर्वगतत्वं साधयेत्तदाप्रसिद्धविशेषणता पक्षस्य । अथ मूर्तानामनिष्टानुषङ्गः । कीदृक् पुनः सामान्यं नाम यदुभयदोषप्रसङ्गपरिहाराय कल्प्येत ? सर्वगतेतरसामान्यात्मन इव मूर्तेतरसामान्यात्मनोऽसम्भवाद्वर्णेषु । तदयमनुमानमुद्रां सर्वत्र भिनत्तीति नानुमानविचारणायामधिकृतः स्यात् । (भा०) अविवक्षितविशेषस्य पक्षीकरणे समः समाधिरित्यलमप्रतिष्ठितमिथ्याविकल्पौधैः । यथैव हि शब्दस्याविवक्षितसर्वगतत्वासर्वगतत्वविशेषस्याकृतकत्वादिहेतुना नित्यत्वे साध्ये न कश्चिद्दोषः स्यात्, नाप्यविवक्षितामूर्त्तत्वेतरविशेषस्य सर्वत्रोपलभ्यमानगुणत्वादिना सर्वगतत्वे, तथैवाविवक्षितार्हदनर्हद्विशेषस्य कस्यचित्पुरुषस्य विप्रकष्टार्थसाक्षात्करणेऽपि साध्येऽनमेयत्वादिहेतना न कञ्चिद्दोषं पश्यामोऽन्यत्राप्रतिष्ठितमिथ्याविकल्पौघेभ्यः प्रकृतसाधनाप्रतिबन्दिभ्यः, तेषामप्रतिष्ठितत्वात्, साधनाभासे इव सम्यक्साधनेऽपि स्वाविषयेऽवतारात्, ततो निरवद्यमिदं साधनं कस्यचित्सूक्ष्मादिसाक्षात्कारित्वं साधयति ॥५॥ नन्वस्तु नामैवं कस्यचित्कर्मभूभृद्भेदित्वमिव विश्वतत्त्वसाक्षात्कारित्वं, प्रमाणसद्भावात् । स तु परमात्माईन्नेवेति कथं निश्चयो यतोऽहमेव महानभिवन्द्यो भवतामिति व्यवसिताभ्यनुज्ञानपुरस्सरं भगवतो विशेषसर्वज्ञत्वपर्यनुयोगे सतीवाचार्याः प्राहुः अष्टसहस्त्रीतात्पर्यविवरणम् प्रत्यक्षत्वेन सिद्धसाधनमुद्देश्यासिद्धिर्वा विशेष्यप्रत्यक्षत्वे तु साध्ये व्याप्त्याग्रहः अनुमितमात्रनष्टेऽर्थे विशिष्यप्रत्यक्षत्वस्यासिद्धेरप्रयोजकत्वं चेति विभाव्यते तदा प्रत्यक्षत्वं सर्वांशनिरावरणवृत्ति किञ्चिदंशनिरावरणवृत्तित्वादालोकत्ववद् व्यतिरेके घटत्वादि
SR No.009089
Book TitleAshtasahastritatparya Vivaranam Part 1
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherPravachan Prakashan Puna
Publication Year2004
Total Pages450
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Philosophy
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy