SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ प्रथमो भाग: [ परि० १ - का० ३] स्याभावात्, धर्माद्युपदेशस्य बहुजनपरिगृहीतस्यान्यथाभावात् । तथा चोक्तम्– उपदेशो हि बुद्धादेर्धर्माधर्मादिगोचरः । अन्यथाप्युपपद्येत सर्वज्ञो यदि नाभवत् ॥ १॥ [ तत्त्वसङ्ग्रहः - ३२२३] बुद्धादयो ह्यवेदज्ञास्तेषां वेदादसम्भवः । उपदेशः कृतोऽतस्तैर्व्यामोहादेव केवलात् ॥२॥ [ ] १२९ ये तु मन्वादयः सिद्धाः प्राधान्येन त्रयीविदाम् । त्रयीविदाश्रितग्रन्थास्ते वेदप्रभवोक्तयः ॥ ३ ॥ इति । [ तत्त्वसङ्ग्रहः - ३२२८] न च प्रमाणान्तरं सदुपलम्भकं सर्वज्ञस्य साधकमस्ति । [अत्र भरतक्षेत्रे, दुःषमकाले सर्वज्ञो नास्तीति मा भूत्, किन्तु अन्यत्र विदेहादिदेशे चतुर्थकाले वा सर्वज्ञः सिद्ध्यति न वेति विचारः क्रियते ] मा भूदत्रत्येदानीन्तनानामस्मदादिजनानां सर्वज्ञस्य साधकं प्रत्यक्षाद्यन्यतमं देशान्तरकालान्तरवर्त्तिनां केषाञ्चिद्भविष्यतीति चायुक्तं । यज्जातीयैः प्रमाणैस्तु यज्जातीयार्थदर्शनम् । दृष्टं सम्प्रति लोकस्य तथा कालान्तरेऽप्यभूत् ॥ इति वचनात् । [मीमांसाश्लोकवार्तिकम्- चोदनासूत्रम् श्लो० ११३] तथा हि-विवादाध्यासिते देशे काले च प्रत्यक्षादिप्रमाणमत्रत्येदानीन्तनप्रत्यक्षादिग्राह्यसजातीयार्थग्राहकं भवति, तद्विजातीयसर्वज्ञाद्यर्थग्राहकं वा न भवति, प्रत्यक्षादिप्रमाणत्वादत्रत्येदानीन्तनप्रत्यक्षादिप्रमाणवत् । अष्टसहस्त्रीतात्पर्यविवरणम् धर्माद्युपदेशोपपत्तेरिति गम्यम् । अन्त्ये त्वाह- धर्माद्युपदेशस्येति त्रयीवित्सम्बन्धी धर्माद्युपदेशो अन्यथाऽपि सार्वज्ञ्याभावेऽपि महाजनपरिग्रहेणैवोपपद्यत इति भावः । उपदेशो हि इत्यादि कारिका पूर्वपक्षपरा, बुद्धादयो हि इत्यादिकारिकाद्वयं विकल्पद्वयसमाधानपरम्, तत्र ये त्विति अस्या अयमर्थः - ये तु मन्वादयस्त्रयीविदां मध्ये प्राधान्येन सिद्धाः, कीदृशा इत्याह-त्रयीविद्भिराश्रितो ग्रन्थः स्मृत्यादिरूपो, येषां=कर्तॄणां ते तथा ते मन्वादयो वेदप्रभवोक्तयः साङ्गमीमांसाध्ययनसमासादितव्युत्पत्तिविशेषसध्रीचीनवेदार्थानुसन्धानप्रभवशुद्धधर्माद्युपदेशा इत्यर्थः तथा च तदुपदेशस्य वेदार्थविवेकेनान्यथोप
SR No.009089
Book TitleAshtasahastritatparya Vivaranam Part 1
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherPravachan Prakashan Puna
Publication Year2004
Total Pages450
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Philosophy
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy