SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ प्रथमो भागः [ परि० १ - का० ३] ८५ बाधवर्जितत्वं तु नैकत्राप्यस्ति हिंसाद्यभिधायिनः श्वेतमजमालभेत भूतिकामः इत्यादेः अष्टसहस्त्रीतात्पर्यविवरणम् शरीरात्मा सुखदुःखेऽनुभवति' इति भूषणसारवचनं, तद्दुर्वचनम्, एकस्यात्मपदस्य धातोश्च विशेषपरत्वापत्तेः, परमात्मात्मानं जानातीत्यत्रागतेश्च । हन्त एवमस्तीत्यादावपि द्रव्यपर्याययोर्व्यापारफलाधारयोर्भेदविवक्षया सकर्मकप्रयोगापत्तिरिति चेत्, सिद्धान्तानभिज्ञोऽसि किं हन्तेति पूत्कारेण ?, अस्तीत्यादौ भेदवचनस्य सम्प्रदायविरुद्धत्वेनानिष्टसाधनत्वज्ञानात्तद्विवक्षाया अयोगात्, इत्थं च आत्मानमात्मना बिभ्रदस्तीति व्यपदिश्यते । अन्तर्भावाच्च तेनासौ कर्मणा न सकर्मकः ॥१॥ [ वाक्यपदीयम् ३.३.४७] इति । बिभ्रदित्यनेन स्वधारणानुकूलो व्यापारोऽत्रापि गम्यत एव तेन कर्मणा सकर्मकत्वं तु न, अन्तर्भावात्=फलांशेन वैयधिकरण्याविवक्षणादिति व्याख्येयम् । न च अत्र साध्यत्वाख्यविषयतामादाय गौणं सकर्मकत्वं यत्नार्थधातोर्नामार्थान्वितसाध्यत्वाख्यविषयतारूपविभक्त्यर्थान्वयित्वेनैव गौणसकर्मकत्वव्यवस्थितेः, यत्यर्थे तु नामार्थान्वितचतुर्थ्यर्थोद्देश्यत्वस्यैवान्वयान्न यतेः सकर्मकत्वमिति भट्टाचार्योक्तं समाधानं रमणीयम्, यतेश्चतुर्यैव साकाङ्क्षत्वमिति नियमस्वीकार एव तथा वक्तुं शक्यत्वात्, न च तत्र प्रमाणमस्ति धर्मे यतेत इत्यादिप्रयोगस्याप्यविगानं दर्शनात् । न च एतदुभयान्तरसाकाङ्क्षत्वेन तत्र यत्नार्थकधातौ साध्यत्वाख्यविषयितान्वयित्वेन सकर्मकत्वव्यवस्थयैव च निस्तारः, सप्तम्या विषयित्वमात्रोपस्थितावपि साध्यत्वाख्यविषयितात्वावच्छिन्नानुपस्थितेरित्यपि शक्यं वक्तुम्, विशेषानुशासनं विना शब्दासाधुत्वस्य भोजनं यतत इत्यादावर्थाबाधेनार्थासाधुत्वस्य चानुपपत्तेरिति दिक् । यतते इत्यादौ यत्नानुकूलो व्यापारो योगाख्य एव भावना, यदि यत्नश्चेष्टा यदि च करणवीर्यमसौ तदा लब्धिवीर्यमेव सा, फलव्यापारयोर्धर्मिभेदाभावाच्चाकर्मकत्वं, व्याप्रियत इत्यादावपि शक्तिव्यक्तिभेदेनान्ततः फलसंसृष्टव्यापारमादाय धात्वर्थविशेष्यकबोध: स्वीकर्त्तव्यः, जानातीच्छतीत्यादौ व्यापारद्वयादौ भेदाग्रहादेकरूपावच्छेदेन कारकफलान्वयः, सङ्ग्रहादेशात् व्यापारे फलान्वये समानपदोपात्तत्वस्य भेदाग्रहगर्भस्यैव नियामकत्वात्, अ एव चैत्रमैत्रौ घटं पश्यत इत्यत्राप्यगृहीतभेदे दर्शनद्वये उभयाश्रयकत्वान्वयः, कर्तृभेदोत्थापितव्यापारभेदस्यापि सङ्ग्रहनयादेशप्रतिबन्धेन ग्रहीतुमशक्यत्वादिति मन्तव्यम्, पाक इत्य १. कर्मवत् कर्मणेतिसूत्रीय (पा० सू० ३.१.८७) भाष्यवचनम् ।
SR No.009089
Book TitleAshtasahastritatparya Vivaranam Part 1
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherPravachan Prakashan Puna
Publication Year2004
Total Pages450
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Philosophy
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy