SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ प्रथमः पक्रमः शालिभद्र महाकाव्यम् 8282828282828282828282828282828282 'सर्वत्र' सकल प्रसंगे 'आहितसौजन्या' स्थापितसज्जनता 'निजैः' स्वैः 'गुणै; क्षमाद्यैः 'मान्या' सर्वप्रातिवेश्मिकाद्यैः मान्या 'नारीणवैभवा' न अरीण: अक्षीणः अपि तु क्षीण एव वैभवो यस्याः सा, निःस्वा इत्यर्थः ॥ १८ ॥ जङ्गमः सेवधिस्तस्या, मनोरथतुरङ्गमः । आस्ते सूनुरनूनाङ्गः, 'सङ्गमः' सौख्यसङ्गमः ॥ १९ ॥ 'तस्या' धन्याया: 'सङ्गमो' नाम 'सूनुः पुत्रः 'आस्ते' अस्तीत्यर्थः । कथम्भूत: स: ? तस्या: 'जङ्गमः' चलन् 'सेवधिः' निधिः । 'मनोरथतरङ्गमः' तस्याः मनोरथे-इच्छापूरणे तुरङ्गमः अश्वः । अथवा मनः एव रथः तत्र तुरङ्गमः । अश्वो हि शीघ्रगामी । अपूर्णेच्छौ हि पितरौ सन्तानेभ्यः स्वेच्छापूर्तिमिच्छतः । 'अनूनाङ्गः' अविकलाङ्गः, 'सौख्यसङ्गमः' । सौख्यस्य-सुखस्य संगमः-संयोगो यस्मात् सः, सुखसंयुत इत्यर्थः ॥ १९ ॥ संगम-वर्णनम्स सोम इव सौम्यश्री-श्चतुरश्च चकोरवत् । अहिंसकः शुको यद्वत्-कलगी: कलकण्ठवत् ॥ २० ॥ विनये वेतसः साक्षाद्, विवेकी कलहंसवत् । स्वभावादेव निर्मायः, सारङ्ग इव सङ्गमः ॥ २१ ॥ कीदृशः स सङ्गमः ? 'सोमः इव' चन्द्र इव, 'सौम्यश्री:' सौम्या शान्तिसहिता श्री: शोभा यस्य सः । 'चकोरवत्' ज्योत्स्नाप्रिय- 2 पक्षिवत् 'चतुरः' कुशलः । 'यद्वत्' यथा 'शुकः' कोर: 'अहिंसकः' हिंसारहित: तद्वत् सोऽपि अहिंसकः । शुकः खलु फलानि अत्ति तन्नामाऽपि फलादनः, यदुक्तं हैम्याम्-'रक्ततुण्डः फलादनः' । 'कलकण्ठवत्' कोकिलवत् 'कलगी:' मधुरवचनः ॥ २० ॥ 'विनये' विनयकरणे 'साक्षात्' प्रत्यक्षं 'वेतसः' वेत्रयष्टिः, तद्वत् नमनशील: । 'कलहंसवत्' ARRARAUAYA8A8282828282828AKUR
SR No.008969
Book TitleShalibhadra Mahakavyam
Original Sutra AuthorN/A
AuthorMuktichandravijay, Munichandravijay
PublisherSamkhiyali Jain Sangh Samkhiyali
Publication Year2007
Total Pages624
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, History, & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy