SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ प्रथमः पक्रम: शालिभद्र महाकाव्यम् ॥ ॐ ह्रीं श्रीं अर्ह नमः ॥ ॥ मनफरामण्डनश्रीवासुपूज्यस्वामिने नमः ॥ ॥ सामखीयारीमण्डनश्रीकुन्थुनाथस्वामिने नमः ॥ ॥ श्रीपन-जीत-हीर-कनक-देवेन्द्र-कञ्चन-कलापूर्णसूरिगुरुभ्यो नमः ॥ मुनिश्रीधर्मकुमारपण्डित-विरचितम् पं. श्रीमुनिचन्द्रविजय-विरचित-गूर्जरानुवादसहितया टीकया विभूषितम् ॥ श्री शालिभद्र महाकाव्यम् ॥ 8282828282828282828282828282828282 82828282828282828282828282828282888 टीकाकार- मङ्गलाचरणम्प्रथमतीर्थपतिः प्रथमो यतिः, क्षितिपतिः प्रथमो विहितोन्नतिः । नत-नृ-सन्ततिरुच्च-पद-स्थितिः, प्रथयतु प्रथमो जिनराट् शुभम् ॥ १ ॥ प्रवर्षत्पयोदं सुधर्मद्रुपोषे, स्फुरन्तं रवि कर्मजम्बालशोषे । प्रचण्डं समीरं च दोषाब्दवृन्दे, जिनं वासुपूज्यं प्रभातेऽभिवन्दे ॥ २॥ सकल-लोक-प्रशान्ति सुखप्रदः, कुशल-पादप-पोषण-वारिदः । मनफरानगरकविभूषणो, जयतु शान्तिजिनो गतदूषणः ॥ ३ ॥ गिरावुज्जयन्ते पवित्रे प्रव्रज्या, तथा येन कैवल्यमोक्षाववाप्ताः । शिवानन्दनो भूतले शान्तिकर्ता, स नेमिर्जिन: स्ताच्च मे विघ्नहर्ता ॥ ४ ॥ प्रिये वाऽप्रिये वा समा यस्य वृत्तिः, सदा यस्य लोकोपकारे प्रवृत्तिः । स्तुवे तं सुभावेन शडेशपार्श्व, सदाऽभीष्टदं पाप-वृक्षौघ-पार्श्वम् ॥ ५ ॥ महामेर्वकम्प्रं धरातुल्यधीरं, महामोहनाशैकवीरं गभीरम् । स्थितं कच्छ-भद्रेश्वरे तीर्थराजे, कषायाग्निनीरं जिनं स्तौमि वीरम् ॥ ६॥
SR No.008969
Book TitleShalibhadra Mahakavyam
Original Sutra AuthorN/A
AuthorMuktichandravijay, Munichandravijay
PublisherSamkhiyali Jain Sangh Samkhiyali
Publication Year2007
Total Pages624
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, History, & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy