SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ पक्रमः शालिभद्र | महाकाव्यम् SASApsa 8282828282828282828282828282 श्रीमुनिः शालिभद्रः जयतु । कथम्भूत: स: ? शमसमुद्रः प्रशमपयोधिः । प्राप्त-मौनीन्द्रमुद्रः-मुनीन्द्रस्य इयं मौनीन्द्री, प्राप्ता मौनीन्द्री मुद्रा येन सः । कलिकलुषदरिद्रः-कलिकलुषाभ्यां दरिद्रः रहित: 'त्यक्तसम्मोहनिद्रः' त्यक्ता सम्मोहनिद्रा येन सः । 'मदनदमनरुद्रः' मदनस्य कामस्य दमने रुद्रः शिवः । शिवेन किल काम: दग्धः इति पौराणिकाः । सर्वतः परितः, भाविभद्रः भाविनि कालेऽपि भद्रं मुक्तिरूपं मङ्गलं यस्य सः । 'शिवपथ रथभद्रः' शिवपथरथेमुक्तिमार्गस्यन्दने भद्रः उत्तमः वृषभः ॥ १४६ ॥ श्री शालिगुरुराजकुञ्जरवराध्यारूढया प्रौढया, श्रीमद्धर्मधराधिपप्रहितया, वैराग्यभङ्ग्या स्वयम् । स्वीचक्रे गजमुद्रयेव सहसा, सर्वार्थसिद्ध्यैव यः, तस्यैतच्चरितं सतां प्रदिशतां, कल्याणमालाश्रियः ॥१४७॥ (शार्दूल.) य श्रीशालिः सर्वार्थसिद्ध्या-सर्वार्थसिद्धसुन्दर्या कर्तृभूतया, सहसा एव स्वीचक्रे-स्वीकृतः । कथम्भूतया सर्वार्थसिद्ध्या ? गुरुराजकुञ्जरवराध्यारूढया-गुरुराजः एव कुञ्जरवर: गजवरः तं आरूढया, प्रौढया-उत्कृष्टया, श्रीमद्धर्मधराधिपप्रहितया श्रीमद्धर्मनृपेण प्रहितया-प्रेषितया, स्वयं वैराग्यभङ्ग्या -विरागप्रकारेण गजमुद्रया इव हस्तिमुद्रया इव (नृपेण गजमुद्रा गजारूढश्रीकरणाय प्रहीयते) यः सर्वार्थसिद्ध्या स्वीचके । तस्य शालिभद्रस्य एतत् चरितं-काव्यरूपमिदं जीवनम्, सतां-सज्जनानाम्, कल्याणमालाश्रियः-मङ्गलश्रेणिलक्ष्मी:, प्रदिशतां-प्रदेयात् ॥ १४७ ॥ प्रस्तुतं दानधर्मेण, श्रीशालिचरितं शुभम् । गोभद्रेण श्रीविबुधप्रभेण तु विशेषितम् ॥ १४८ ॥ श्रीमद् भद्रेश्वरे वीर-पादोपान्ते समर्थितम् । भूयात् सकर्णकर्मानाममृतप्रातराशवत् ॥ १४९ ॥ ARRARAUAYA8A82828282828282888 ॥३३४॥
SR No.008969
Book TitleShalibhadra Mahakavyam
Original Sutra AuthorN/A
AuthorMuktichandravijay, Munichandravijay
PublisherSamkhiyali Jain Sangh Samkhiyali
Publication Year2007
Total Pages624
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, History, & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy