SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ पक्रमः शालिभद्र महाकाव्यम् 8282828282828282828282828282828282 कथं तदित्याह-वत्सौ ! युवा स्वस्थौ-आत्मस्थौ । धन्यौ कृतपुण्यौ । सलक्षणौ-सुलक्षणैः सहितौ स्थ: इति शेषः । युवयोः जन्म सुलब्धं-सफलम् । संयमजीवितं साधु-श्रेष्ठम् । अस्तीति शेषः ॥ ३१ ॥ पराक्रमं धनुः कृत्वा, विनियोज्याशुगं मनः । लक्ष्यध्यानावधानेन, राधावेधो विधीयताम् ॥ ३२ ॥ पराक्रमं धनुः कृत्वा तत्र आशुगं-आशु-क्षिप्रं गच्छति इत्येवंशीलं बाणं तद्पं मनः । 'विनियोज्य' निवेश्य । 'लक्ष्यध्यानावधानेन' लक्ष्यवेधध्याने अवधानेन । 'राधावेधः' राधा-सप्तचक्रोपरि भ्रमन्ती पुत्तलिका तस्याः वेधः तत्तुल्या कठिना साधना । 'विधीयतां' क्रियताम् ॥ ३२ ॥ तमेवं श्रीजिनादेशं, नेत्रपट्टमिवोज्ज्वलम् । शिरस्याधाय समितिदीक्षां शिक्षामपि क्षणात् ॥ ३३ ॥ श्रीगौतमं पुरस्कृत्य, विशुद्धाध्यवसायवत् । मैत्रीभावमिवोत्तुङ्ग, वैभारगिरिमीयतुः ॥ ३४ ॥ एवं नेत्रपट्टमिव-बहुमूल्यवस्त्रमिव । उज्जवलं तं श्रीजिनादेशम् । 'समितिदीक्षां' समितिगुप्तिव्रतम् । युद्ध पक्षेसनामव्रतम् । 'शिक्षामपि' अनशनयोग्यहितशिक्षामपि । 'क्षणात्' तूर्णम् । 'शिरसि मस्तके । 'आधाय' कृत्वा ॥ ३३ ॥ 'विशुद्धाध्यवसायवत्' पवित्रमन:-परिणाममिव । श्रीगौतमं पुरस्कृत्य । मैत्रीभावमिव उत्तुङ्गं वैभारगिरि ईयतुःगतौ ॥ ३४॥ शनैः शनैः समारुह्याधित्यकां मुदितामिव । माध्यस्थ्यमिव सौस्थ्याय, प्रत्युपेक्ष्य शिलातलम् ॥ ३५ ॥ स्मृतपञ्चनमस्कारकृतपञ्चाङ्गिरक्षणौ । क्षमयित्वा समग्रं च, जन्तुजातं कुटुम्बवत् ॥ ३६ ॥ ARRARAUAYA8A82828282828282888 ॥३०७॥
SR No.008969
Book TitleShalibhadra Mahakavyam
Original Sutra AuthorN/A
AuthorMuktichandravijay, Munichandravijay
PublisherSamkhiyali Jain Sangh Samkhiyali
Publication Year2007
Total Pages624
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, History, & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy