SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ षष्ठः प्रक्रमः शालिभद्र महाकाव्यम् 8282828282828282828282828282828282 अतिस्निग्धं जगन्मैत्र्या, मनः किं युग्मिकालवत् । निर्ममत्वेन किं चाति-रुक्षं प्रान्तारवत् तयोः ॥ १८५ ॥ संयमात्यन्तिकरतेः, स्वर्गसर्गायितं किमु ? । आविर्भावयतः प्राप, नात्र द्वेषवृषाकपिः ॥ १८६ ॥ 'तयोः' मुन्योः । 'मनः' चेतः । किं जगन्मैत्र्या। 'युग्मिकालवत्' अवसर्पिण्या: प्रथम-द्वितीय-तृतीयारकवत् । 'अतिस्निग्धं' अतिस्नेहयुक्तम् । किञ्च निर्ममत्वेन-ममतारहिततया । 'प्रान्तारवत्' प्रान्त:-चरमः षष्ठार तद्वत् । 'अतिरुक्षं' अतिरुक्षता-युक्तम् ? ॥ १८५ ॥ किमु संयमात्यन्तिकरते:-संयमे चारित्रे आत्यन्तिकरते: अतिशयितरागात् । 'स्वर्गसर्गायितं' स्वर्गसृष्टितुल्यम् ? चारित्ररागात् सरागसंयमात् लभ्यते एव स्वर्गः । 'आविर्भावयतः' प्रकटयत: जनस्य । 'अत्र' मनसि । 'द्वेषवृषाकपि:' कोपानल: । 'वृषाकपिः पावक-चित्रभानू' इति हैम्याम् । 'न प्राप' न प्राप्तः । युग्मिकाले षष्ठारके देवलोके च कालस्य अतिस्निग्धत्वात् अतिरुक्षत्वाद् वा अग्निः न उत्पद्यते, तेन कवेरियं कल्पना ॥ १८६ ।। स्थानान्तरानपेक्षौ तौ, संवेगान्मुनिपुङ्गवौ । ववलाते शिरःस्थायि-स्वाम्याज्ञारश्मिराजितौ ॥ १८७ ॥ 'स्थानान्तरानपेक्षौ' अन्यस्थानगमने निरपेक्षौ । 'शिरःस्थायिस्वाम्याज्ञारश्मिराजितौ' शिरसि-मस्तके स्थायिन्य: स्वामिनः वीरस्य आज्ञा-रश्मयः आज्ञाकिरणानि तैः राजितौ-शोभितौ । वृषभपक्षे-शिरःस्थायिशाकटिकरज्जुराजितौ । तौ मुनिपुङ्गवौ-मुनिसत्तमौ शालिधन्यौ । पक्षे-पुङ्गवौ-प्रधानवृषभौ । 'संवेगात्' वैराग्यात् । पक्षे-सम्यग् वेगात् । 'ववलाते' वलत: स्म ॥ १८७ ॥ निरीयमाणयोः पुर्याः काचिन्मथितहारिका । तयोः संमुखमायासी-इधिपात्रावली दधिः ॥ १८८ ॥ 'पुर्याः' राजगृहपुर्याः । निरीहमाणयोः निर्गच्छतोः । तयोः साध्वोः । 'संमुखं' पुः । दधिपात्रावली satasa8RSR88RSONASRSASASASRSANASNA ॥२९०॥
SR No.008969
Book TitleShalibhadra Mahakavyam
Original Sutra AuthorN/A
AuthorMuktichandravijay, Munichandravijay
PublisherSamkhiyali Jain Sangh Samkhiyali
Publication Year2007
Total Pages624
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, History, & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy