SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ षष्ठः प्रक्रमः शालिभद्र महाकाव्यम् 8282828282828282828282828282828282 चिरं मरुकुरङ्गीव, मम दृष्टिः पिपासिता । लावण्यसलिलं धीरा, मनोहत्य प्रपास्यति ॥ १६५ ॥ पुत्रमामन्त्रयिष्येऽहं, दिव्याहारेण लालितम् । अपि मोचितैरन्नपानाम्येव नागरम् ।। १६६ ॥ एवं मनोरथरथव्यूहोदूतरजश्चयैः । निरुद्धनयनेवाम्बा, नालुलोके सुतं मुनिम् ॥ १६७ ॥ अथ भद्रामनोरथान् षङ्भिः श्लोकैः दर्शयति-तत्र' शालिमुनिसमीपे । 'सत्वरं' क्षिप्रम् । 'यास्यामि' गमिष्यामि । या 'हिङ्कारस्य' ह्रीं इति मन्त्रबीजस्य । 'वेष्टनामिव' त्रिरेखावर्तुलमिव । तस्य साधुमण्डलसारस्य-मुनिसमूहे सारभूतस्य शालिमुनेः। प्रदक्षिणां दास्ये ॥ १६२ ॥ तस्य मुनेः । 'चन्दनेन इव' श्रीखण्डेन इव । 'निर्भरं' अत्यर्थम् । 'वन्दनेन' नमस्कारेण । 'कुटम्बाऽयोगरोगजं' कुटुम्बस्य अयोग: वियोग: सः एव रोगः तस्मात् जातम् । 'सन्तापं' मनस्तापम् । 'अपनेष्यामि' निवारयिष्यामि ॥ १६३ ॥ 'कपोलपालिलालित्ये' कपोलपालिः-गण्डपालिरेव लालित्यं यत्र तस्मिन् । 'नेत्रराजीवराजिते' नयनकमलशोभिते । 'वेल्लद्भवल्लिके' वेल्लन्त्यः-चलन्त्यः भ्रवः एव वल्लय: लता: यत्र तथाविधे, क: स्वार्थिकः । 'भालस्थले' भालं-ललाटमेव स्थलं यत्र । 'तन्मुखपल्वले' शालिवदनलघुसरसि ॥ १६४ ॥ मरुदेशस्य कुरङ्गीव-मृगीव । 'पिपासिता' तृषिता । मम धीरा-धैर्य प्राप्ता दृष्टिः । 'चिरं' चिरकालं यावत् । 'मनोहत्य' तृप्ति यावत् । 'लावण्यसलिलं' लावण्यजलम्। 'प्रपास्यति' पानं करिष्यति ॥ १६५ ॥ 'दिव्याहारेण' दिव्येन आहारेण स्वर्गीयेण अनेन । 'लालितमपि' वर्धितमपि । 'पुत्रं' तनयम् । मयोचितैः' मनुष्ययोग्यैः । अन्नपानैः । अहं आमन्त्रयिष्येनिमन्त्रणं करिष्यामि । दृष्टान्तमाह-'ग्राम्या' ग्रामीणा स्त्री । 'नागरमिव' नगरनिवासिनं पुरुषमिव आमन्त्रयति ॥ १६६ ॥ एवम् । 'मनोरथरथव्यूहोध्दूतरजश्चयैः' मनोरथा: एव रथाः तेषां व्यूहस्य-समूहस्य उध्दूतैः ऊर्ध्वं गतैः रजश्चयैः पांशुसमूहैः । 8282828282828282828282828282828282 ॥ २८४॥
SR No.008969
Book TitleShalibhadra Mahakavyam
Original Sutra AuthorN/A
AuthorMuktichandravijay, Munichandravijay
PublisherSamkhiyali Jain Sangh Samkhiyali
Publication Year2007
Total Pages624
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, History, & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy