SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ षष्ठः प्रक्रमः शालिभद्र महाकाव्यम् 8282828282828282828282828282828282 'अनन्यभिक्षाचराणां' सामान्ययाचकानाम् । 'औचित्या' मर्यादया । 'सुस्थितौ' स्वस्थौ । 'पुरं' उग्रे । 'तस्थतुः' तिष्ठतः स्म ॥ १३२ ॥ प्रददे धर्मलाभाशीः, किन्तु नोच्चैर्न सादरम् । दर्शिता दर्शनाचारविचारे चातुरी परम् ॥ १३३ ॥ 'धर्मलाभाशी:' 'धर्मलाभः' इति आशी: आशीर्वादः । 'प्रददे' प्रदत्ता । किन्तु साऽपि । 'न उच्चैः' न महारवेण। 'न सादरं' न सस्नेहं प्रदत्ता । 'परं' केवलम् । दर्शनाचारविचारे । 'चातुरी' कौशल्यम् । 'दर्शिता' प्रकटिता ॥ १३३ ।। विवर्णी चित्रलिखितौ, निर्लेपौ लेपनिर्मितौ । अतुल्यौ धर्मसौधस्य, तुल्यकुड्याविव स्थितौ ॥ १३४ ॥ चित्रलिखितौ अपि विवौँ वर्णरहितौ अत्र विरोधपरिहारे चित्रलिखितौ चित्राङ्किततुल्यौ रोषतोषरहितौ । 'विवौँ' शरीररूपरङ्गरहितौ । लेपनिर्मिती लेपेन निर्मितौ अपि निर्लेपौ-लेपरहितौ अत्र विरोधपरिहारे लेपनिर्मितौ लेपकृदाहारनिर्मितिः तत्र निलेपौ-अनासक्तौ । 'धर्मसौधस्य' धर्मप्रासादस्य । 'अतुल्यौ' असमौ । 'तुल्यकुड्यौ इव' समानभित्ती इव । 'स्थितौ' तिष्ठतः स्म ॥ १३४ ॥ नैकं पदं पुरोऽभूतां, पदमेकं च नोचतुः । सर्वार्थसिद्धिदं मौनमेतावेकपदेऽकृताम् ॥ १३५ ॥ एकमपि पदं-चरणम् । 'न पुरः' न अग्रे । 'अभूतां' जातौ । एकं च पदं-शब्दरूपम् । 'न उचतुः' न जगदतुः । 'एकपदे' सहसा । 'सर्वार्थसिद्धिदं' सकलप्रयोजनप्राप्तिप्रदम, सर्वार्थसिद्धविमानप्रदं वा । तष्णीम्भावं 'मौन' मनेर्भावं वा। 'अकृतां' कृतवन्तौ । अकृतामिति क्रियास्थाने अकार्टामित्येवंरूपः प्रयोगः सम्भाव्यते ॥ १३५ ।। पल्लवी सल्लकीस्तम्भः, सद्मभारधरोऽप्यलम् । रसासङ्गेन जायेत, तथा शीलाङ्गभागपि ॥ १३६ ॥ ARRARAUAYA8A82828282828282888 ॥ २७६ ॥
SR No.008969
Book TitleShalibhadra Mahakavyam
Original Sutra AuthorN/A
AuthorMuktichandravijay, Munichandravijay
PublisherSamkhiyali Jain Sangh Samkhiyali
Publication Year2007
Total Pages624
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, History, & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy