SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ षष्ठः प्रक्रमः शालिभद्र महाकाव्यम् 8282828282828282828282828282828282 'त्रिप्राकारपरीवेषं' त्रिप्राकारा: त्रय: वप्राः परीवेष: परिधिः यत्र तत् । 'त्रिलोकी तिलकोपम' त्रिलोक्या: त्रिजगत्याः तिलकोपमम् । 'रत्नवत्' रत्नयुक्तम्, मतुप्रत्यये रूपम् । 'समवसरणं' देशनासदनम् । 'विभुः' श्रीवीरः । 'अध्यासामास' उपविष्टवान् । अधेः शीङ् ।२।२।।२०॥ इत्याधारस्य (समवसरणस्य) कर्मसंज्ञा ॥ ११६ ॥ ततोऽहम्पूर्विकापूर्वमपूर्वमिव सेवितुम् । जना जिनं समासेदुः, श्रीमन्तं स्वजना इव ॥ ११७ ॥ 'ततः' तेन कारणेन । 'अपूर्वमिव' अद्वितीयमिव । 'अहम्पूर्विकापूर्वं' अहं पूर्वं अहं पूर्वं इति जल्पः यस्यां सा अहम्पूर्विका तत्पूर्वकम् । 'सेवितुं' आराधितुम् । 'स्वजनाः' स्वज्ञातीया: । 'श्रीमन्तं' धनाढ्यम् । तद्वत् । जनाः जिनं-वीरम् ‘समासेदुः' प्राप्ताः ॥ ११७ ॥ इतश्च तौ मुनी मान्यौ, शब्दार्थाविव सङ्गतौ । परमार्थाय पर्याप्तौ, साधुवृत्तविशेषकौ ॥ ११८ ॥ अनुत्सुकावनुत्सेको, मासक्षपणपारणे । श्रीसर्वज्ञमनुज्ञायै, प्राप्तकालं प्रणेमतुः ॥ ११९ ॥ इतश्च तौ-शालिधन्यौ । 'मान्यौ' माननीयौ । 'मुनी' साधू । 'शब्दार्थों इव सङ्गतौ' वागर्थौ इव संयुक्तौ । 'परमार्थाय' मोक्षाय । 'पर्याप्ती' कृतादरौ । 'साधुवृत्त' विशेषको' साधुजनाचारतिलकौ ॥ ११८ ॥ 'अनुत्सुकौ' क्षिप्रं स्वमन्दिरं यावः पश्याव:-इति उत्सुकतारहितौ । अनुत्सेको' आवां धनाढ्यकुलोद्भवौ महान्तौ इति उत्सेकेन-गर्वेण रहितौ । मासक्षपणपारणे' मासोपवासपारणे । 'अनुज्ञायै' 'श्रीसर्वज्ञ' श्रीकेवलज्ञानिनं वीरम् । प्राप्तकालं' यथावसरम् । 'प्रणेमतुः' वन्देते स्म ।। ११९ ।। आदिदेश जिनाधीशः, शालिभद्रं विलोकयन् । यत्सवित्री भवित्री ते, वत्स ! पारणकारणम् ॥ १२० ॥ 8282828282828282828282828282828282 ॥ २७२॥
SR No.008969
Book TitleShalibhadra Mahakavyam
Original Sutra AuthorN/A
AuthorMuktichandravijay, Munichandravijay
PublisherSamkhiyali Jain Sangh Samkhiyali
Publication Year2007
Total Pages624
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, History, & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy