SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ श्री शालिभद्र महाकाव्यम् CHERER 'स्मरचौरभयाभावाद्' स्मरचौरस्य कामस्तेनस्य भयाभावात् भीते: अभावात् । 'गन्तव्याल्पतयेव' गन्तव्यस्य मार्गस्य अल्पतया इव । वा विकल्पे । 'निर्ग्रन्थौ' शालिधन्यौ मुनी । 'पथि' मार्गे । 'ईर्यया' ईर्यासमित्या । 'मन्थरं' शनैः शनैः । 'चारु' सुन्दरम् । 'चेरतुः ' विचरतः स्म ॥ १०९ ॥ अल्पाक्षोपाङ्गशीलाङ्गभृताङ्गशकटस्य किम् । चीत्कारः कीकशारावस्तयोश्चङ्क्रमणक्रमे ॥ ११० ॥ 'तयोः' साध्वोः । 'चङ्क्रणक्रमे गमनविधौ । 'कीकशारावः' अस्थिध्वनिः । किं अल्पाक्षोपाङ्गशीलाङ्गभृताङ्गशकटस्य-अल्पः स्तोके, अक्षाणि इन्द्रियाणि उपाङ्गानि - १८००० शीलाङ्गरथभृतः शरीरशकटस्य । क्षे स्तोकं अक्षस्य धुरः उपाङ्गं तैलक्षेपणम् । 'उंजवं' इति भाषायाम् । इत्येवंरूपशकटस्य । 'चीत्कार:' ध्वनिः । यथा अल्पतैलक्षेपे शकटे चीत्कारध्वनिः समुच्छलति तथा स्निग्धाहारऽभावात् शालिधन्य देहयोरपि अस्थिरवः समुच्छलति इत्यर्थः ॥ ११० ॥ द्वादशात्मप्रभासारं, तपो द्वादशभेदभृत् । द्वादशाब्दी समाराध्य, धृतद्वादशभावनौ ॥ १११ ॥ श्रीमता वीरनाथेन सहितौ रहितौ मदैः । समेतौ समितिप्रष्ठौ, पुना राजगृहं परम् ॥ ११२ ॥ ( युग्मम् ) 'द्वादशभेदभृत्' बाह्यान्तरद्वादशविधम् । 'द्वादशात्मप्रभासारं' सूर्यकान्तिसारं सूर्यवत् उग्रतेजः । तपः । 'द्वादशाब्दी' द्वादशवर्षाणि यावत् । 'समाराध्य' सेवित्वा । 'धृतद्वादशभावनौ' धृताः चिन्तनरूपेण अनित्यतादिद्वादश भावनाः याभ्यां तौ ॥ १११ ॥ ' श्रीमता' अतिशयलक्ष्मीवता । 'वीरनाथेन' महावीरस्वामिना । 'सहितौ' सङ्गतौ। 'मदैः' जात्याद्यष्टमदैः । ‘रहितौ' वर्जितौ । ‘समितिप्रष्ठौ ' समितिगुप्तिषु प्रष्ठौ- प्रधानौ । 'पुनः ' भूयः । राजगृहं पुरं समेतौ समागतौ ॥ ११२ ॥ xxx षष्ठः प्रक्रमः ।। २७० ।।
SR No.008969
Book TitleShalibhadra Mahakavyam
Original Sutra AuthorN/A
AuthorMuktichandravijay, Munichandravijay
PublisherSamkhiyali Jain Sangh Samkhiyali
Publication Year2007
Total Pages624
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, History, & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy