________________
श्री शालिभद्र
महाकाव्यम्
'दृप्ताः' मत्ता: । 'तै:' धातुभि: । 'अष्टौ श्रृङ्गाराद्या: ' शान्तरसरहिता: अष्टरसाः दृप्ताः । 'अतः ' सर्वानर्थमूलमिमे षड्रसाः इति कृत्वा । 'ताभ्यां' शालिधन्याभ्याम् । 'षडपि' भोज्यरसाः । त्यक्ताः' परिहृताः ॥ ९९ ॥
वर्णश्लोकार्थदूरस्थं, मासक्षपणमेतयोः । अभिष्वङ्गलगद्रङ्गबिन्दुच्युतमिवाभवत् ॥ १०० ॥
'वर्णश्लोकार्थदूरस्थं' वर्ण:- शरीरकान्तिः श्लोकः कीर्तिः अर्थः कनकादिकं तेभ्यः दूरस्थं रहितम् । यदुक्तं दशवैकालिके - "नो कित्तिवण्ण सह-सिलोगट्ठयाए तवमहिट्ठिज्जा" ९ / ४ । 'अभिष्वङ्गलगद्रङ्गबिन्दुच्युतमिव' अभिष्वङ्गेन स्नेहेन लगन् यः रङ्गबिन्दुः हर्षबिन्दुः तेन च्युतं - रहितमिव । 'एतयोः ' शालिधन्ययो: । 'मासक्षपणं' मासोपवासतपः । बिन्दुसहितं मांसक्षपणमभूत् ॥ पक्षे- वर्णश्लोकार्थ - रहितोऽयं बिन्दुच्युतालङ्कारोऽभवत् ॥ १०० ॥
अनाहारव्ययैर्मासक्षपणैः कृपणैरिव । चक्रे स्फारं तपः सारं, गेहं देहं कृशं भृशम् ॥ १०१ ॥
'अनाहारव्ययैः' आहारव्ययः नास्ति येषां तैः । 'कृपणैरिव' कदर्यैरिव। 'मासक्षपणैः' मासोपवासैः । 'स्फारं' विशालम् । 'तप:सारं' तपः एव सारः यत्र तद् । 'देहं गेहूं' गेहरूपं देहं शरीरम् । 'भृशं' अत्यर्थम् । 'कृशं' दुर्बलम् । 'चक्रे' ताभ्यां मुनिभ्यां कृतम् ॥ १०१ ॥
एक-द्वि-त्रि- चतुर्मास-क्षपणैरापणैरिव । अगण्यपुण्यपण्यानि क्रीणीतः स्म गतस्मयौ ॥ १०२ ॥ 'आपणैरिव' हट्टैरिव । 'एकद्वित्रिचतुर्मासक्षपणैः' एक मास- द्विमास- त्रिमास- चतुर्मासानामुपवासैः । हट्टतुल्येभ्यः मासक्षपणेभ्यः इत्यर्थः । ‘गतस्मयौ' गतगर्वौ तौ । शालिधन्यौ । 'अगण्यपुण्य पण्यानि अगण्यानि अमेयानि पुण्यपण्यानि पुण्यक्रयाणकानि । 'क्रीणीतः स्म' क्रयं कुरुतः स्म ॥ १०२ ॥
GREDER
षष्ठः
प्रक्रमः
।। २६७ ॥