SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ षष्ठः प्रक्रमः शालिभद्र महाकाव्यम् 8282882 8282828282828282828282828282 धनार्जनप्रवासेषु । 'सोद्यमः' पश्चात् स्थितः उद्यमी पुरुषः । 'विवाहे' पाणिग्रहणे । 'युवा' पश्चात् स्थित: अविवाहितः तरुणः । 'युधि' सङ्ग्रामे । 'शूरः' पश्चात् स्थित: वीरनरः । चः समुच्चये । यथा स्वं वञ्चितं मन्यते ॥ ६० ॥ तथा भद्रा । 'जामातरं' धन्यं मुनिम्। 'सुतां' सुभद्रां साध्वीम् । 'पुत्रं' शालिभद्रं मुनिम् । 'तपसे' संयमाय । 'गृहात्' गेहात्-संसारात् । 'प्रस्थितं' निर्गतम् । 'आलोक्य' दृष्टवा । 'तदा' तत्क्षणे । 'स्वमपि' आत्मानमपि । 'वञ्चितं' अकृतार्थम् । 'मेने' मतवती ।। ६१ ॥ श्रेणिकः श्रीमहावीरं धन्यशालिमुनी अपि । नत्वा राजगृहं प्राप, विस्मयं च महामनाः ॥ ६२ ॥ 'महामनाः' महाशयः । 'श्रेणिकः' राजगृहेश्वरः । श्रीमहावीरं धन्यशालिमुनी अपि । 'नत्वा' प्रणम्य । राजगृहं विस्मयं च । 'प्राप' प्राप्तः ॥ ६२ ॥ पुत्रं पोतमिवारोप्य, हित्वा चरणसागरे । भद्रा जगाम विद्राणा, सस्नुषा विमुखायिता ॥ ६३ ॥ 'चरणसागरे' संयमसमुद्रे । 'पोतमिव' प्रवहणमिव । 'पुत्रं' सुतम् । 'आरोप्य' संस्थाप्य । 'हित्वा' विहाय । 'विद्राणा' विच्छाया । 'सस्नुषा' पुत्रवधूसहिता । 'विमुखायिता' विमुखाचरिता विमुखीभूता । भद्रा । 'जगाम' गच्छति स्म ॥ ६३॥ देवाराममदेवहूँ, मेने निर्वासवं दिवम् । निःसोमं व्योम विनृपं, देशं सा वेश्म तन्निजम् ॥ ६४ ॥ 'सा' भद्रा । 'देवारामं' नन्दनवनम् । 'अदेवहूँ' कल्पवृक्षरहितम् । 'दिवं' स्वर्गम् । 'निर्वासवं' इन्द्ररहितम् । 'व्योम' आकाशम् । 'निःसोमं' चन्द्ररहितम् । 'देशं' राष्ट्रम् । “विनृपं' भूपतिरहितम् । तद्वत् । तत् निजं-स्वम् । 'वेश्म' गृहम् । 'मेने' मतवती ॥ ६४ ॥ 8282828282828282828282828282828282 ॥ २५६॥
SR No.008969
Book TitleShalibhadra Mahakavyam
Original Sutra AuthorN/A
AuthorMuktichandravijay, Munichandravijay
PublisherSamkhiyali Jain Sangh Samkhiyali
Publication Year2007
Total Pages624
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, History, & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy