SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ षष्ठः प्रक्रमः शालिभद्र महाकाव्यम् 828ASASA 8282828282828282828282828282 'अस्य' शालिभद्रस्य । 'भोगश्रीः' विलासलक्ष्मीः । 'सा' तावती । 'पृथुः' विशाला । स्वरादुतो गुणादखरो: ॥२।४।३५।। इति स्त्रीलिङ्गेन पृथ्वीवत् पृथुरपि । 'यत्र' भोगश्रियाम् । 'भूधरोऽपि' राजा पर्वतश्च । 'तृणं' तृणवत् न किञ्चित् । 'युक्तं' सत्यम् । 'उन्मग्ना' आपगा इव उन्मग्नाऽऽख्या नदी इव, यस्यां भूभृदपि तरति सा उन्मग्ना नदी । 'सुतरां' नितान्तम् । 'सुतरा' सुखेन तर्तुं शक्या दिव्यश्रीः । 'अभूत्' जाता ॥ १९ ॥ विभूतेस्त्यागभोगाभ्यां , धिग् दूनास्तद्धना वयम् । धन्यः श्रीशालिरेवायं, मोक्तुं भोक्तुं च यः क्षमः ॥२०॥ 'वयं' राजानः । 'तद्धनाः' कृपणाः । 'कीनाशस्तद्धनः क्षुद्रकदर्यः' इति हैम्याम् । 'विभूतेः' सम्पत्तेः । 'त्यागभोगाभ्यां' दानोपभोगाभ्याम् । 'दूनाः' हीनाः, पतितमुद्राग्रहणात् रत्नम्बलाऽग्रहणाच्च । श्रीशालिः एव अयं धन्य:प्रशस्यः कृतार्थः। यः मोक्तुं त्यक्तुम् । 'भोक्तुं' विलसितुम् । 'क्षमः' समर्थः ॥ २० ॥ तदहं स्वयमेवैत्य, शालेनिष्क्रमणोत्सवम् । विधाय श्वासखेदस्य तस्य दास्यामि निष्क्रयम् ॥ २१ ॥ 'तत्' तस्मात् । 'अहं' श्रेणिकः । स्वयमेव' आत्मनैव । 'एत्य' आगत्य । शालेः । 'निष्क्रमणोत्सवं' दीक्षोत्सवम् । 'विधाय' कृत्वा । तस्य श्वासखेदस्य श्वासात् जातस्य खेदस्य । 'निष्क्रयं' मूल्यम् । 'दास्यामि' अर्पयिष्यामि ॥ २१ ॥ इत्यादिश्य समाश्वास्य, राजचिह्नप्रदानतः । व्यम्राक्षीत् प्रीतिफुल्लाक्षी, भद्रां भद्रङ्करः प्रभुः ॥ २२ ॥ इति आदिश्य कथयित्वा । 'राजचिह्नप्रदानत:' राजचिह्नानां मुकुटादीनां प्रदानतः-अर्पणात् । 'समाश्वास्य' आश्वासनं दत्वा । 'भद्रङ्करः' भद्रं करोतीत्येवंशील: । 'प्रभुः' नृपः श्रेणिकः । 'प्रीतिफुल्लाक्षी' प्रीत्या प्रेम्णा फुल्लाक्षी विकसितनयनाम् । भद्राम् । व्यम्राक्षीत् प्रेषयामास ॥ २२ ॥ satasa8RSR88RSONASRSASASASRSANASNA ॥ २४५ ॥
SR No.008969
Book TitleShalibhadra Mahakavyam
Original Sutra AuthorN/A
AuthorMuktichandravijay, Munichandravijay
PublisherSamkhiyali Jain Sangh Samkhiyali
Publication Year2007
Total Pages624
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, History, & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy