SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ षष्ठः ॥अथ षष्ठः प्रक्रमः ॥ प्रक्रमः शालिभद्र महाकाव्यम् 8282828282828282828282828282828282 शालेः पुण्यकणश्रेणिः, प्रशस्तां स्वस्तिकश्रियम् । श्रयन्ती देवदेवस्य, पुरतः परिभाव्यताम् ॥ १ ॥ 'शाले:' शालिभद्रस्य । पक्षे-शालिव्रीहे: 'पुण्यकणश्रेणिः' सुकृतांशावली । पक्षे-पवित्रकणावली । 'देवदेवस्य' श्रीमहावीरजिनेश्वरस्य । 'पुरतः' अग्रतः । 'प्रशस्तां' कल्याणपूर्णाम् । 'स्वस्तिकश्रियं' स्वस्तिकशोभाम् । 'श्रयन्ती' भजन्ती। 'परिभाव्यतां' विलोक्यताम् ॥ १ ॥ सार्धं श्रीशालिभद्रस्य, श्रद्धयेवाययौ प्रभुः । महतां हि स्पृहाप्राप्ती, युग्मजाते इव ध्रुवम् ॥ २ ॥ श्रीशालिभद्रस्य श्रद्धया-वीरागमनाभिलाषया । 'सार्धमिव' सममिव । 'प्रभुः' श्रीवीरः । 'आययौ' समागतः । 'महतां' महापुरुषाणाम् । हि: निश्चये । 'स्पृहाप्राप्ती' स्पृहा-वाञ्छा प्राप्तिः लाभः ते । 'ध्रुवं' नूनम् । 'युग्मजाते इव' सहोद्भूते इव भवतः ॥ २ ॥ श्रीवीरपाखें धन्यस्य दीक्षाश्रृङ्गारहेतुमुद्धानां दुर्विधानां तु शम्बलम् । वैभारं क्षोणिकल्याणा-लङ्कारं धरणीधरम् ॥ ३ ॥ भूर्भुवः स्वस्त्रयीहीरः श्रीवीरः सुरसेवितः । अलञ्चक्रे प्रभावाढ्यो, भववारितरः प्रभुः ॥ ४ ॥ 'ऋद्धानां' समृद्धानां श्रेष्ठिनाम् । 'श्रृङ्गारहेतुं' शोभाकारणम् । पर्वते पर्यटनादिविलास करणात् । 'दुर्विधानां' 82828282828282828282828282828282888 ॥ २४०॥
SR No.008969
Book TitleShalibhadra Mahakavyam
Original Sutra AuthorN/A
AuthorMuktichandravijay, Munichandravijay
PublisherSamkhiyali Jain Sangh Samkhiyali
Publication Year2007
Total Pages624
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, History, & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy