SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ पक्रमः शालिभद्र महाकाव्यम् 8282828282828282828282828282828282 नरश्रेष्ठः । 'श्रीमल्लिकावसन्तर्तुः' श्री: लक्ष्मी: सैव मल्लिका मालती तद्विकासे वसन्तऋतुतुल्य: । 'सौजन्यभूः' सज्जनतास्थानम्। 'धन्यः' तन्नामा । अभूत् ॥ १४२ ॥ तस्यान्यदा मुदा स्नाने, प्रस्तुते स्कन्धबन्धयोः । दयितानेत्रपत्रान्तात्, पेतुः कोष्णाश्रुबिन्दवः ॥ १४३ ॥ 'अन्यदा', अन्येयुः । 'तस्य' धन्यस्य । 'मुदा' आनन्देन । स्नाने । 'प्रस्तुते' कर्तुमारब्धे । 'स्कन्धबन्धयोः' असंबन्धयोः उपरि। 'दयितानेत्रपत्रान्तात्' प्रिया (सुभद्रा) नयनदलान्तात् । 'कोष्णाश्रुबिन्दवः' किञ्चिदुष्णा: अश्रुविपुषः । 'पेतुः' पतिताः ॥ १४३ ॥ बिन्दुर्बिन्दूनसौ सौख्य-शून्यबिन्दून् प्रिया जगौ । निर्यान्त्यश्रुकणाः किं ते, भृङ्गाभा नेत्रपद्मतः ॥ १४४ ॥ 'बिन्दून्' विपुषः । 'सौख्यशून्यबिन्दून्' सौख्यस्य शून्यरूपान् बिन्दून् । तृन्नुदन्ता ।२।२।९०॥ इति षष्ठीनिषेधादत्र कर्मणि द्वितीया । 'बिन्दुः' विदुर: जानन् । बवयोरभेदात् । 'वेदिता विदुरो बिन्दुः' इति हैम्याम् । विन्दिच्छू ।५।२।३४|| इति निपात: । 'असौ' धन्यः । 'प्रियां' सुभद्राम् । 'जगौ' कथयामास । 'किं' कथम् । 'ते' तव । 'नेत्रपद्मतः' नयनकमलत: 'भृङ्गाभाः' भ्रमरतुल्याः । 'अश्रुकणाः' बाष्पबिन्दवः । 'निर्यान्ति' निर्गच्छन्ति ? ॥ १४४ ॥ सा प्रत्याह मम स्वामिन् ! सोदरः संयमादरात् । एकैकां प्रेयसी प्रेम-हेमैककषपट्टिकाम् ॥ १४५ ॥ कन्दर्पधूर्तसंमोह-मूलिकामिव तूलिकाम् । मुञ्चति प्रत्यहं हन्त ! तदहं दुःखपूरिता ॥ १४६ ॥ 'सा' सुभद्रा । 'प्रत्याह' प्रत्युवाच । 'स्वामिन्' हे नाथ ! मम सोदरः-भ्राता शालिभद्रः । 'संयमादरात्' 82828282828282828282828282828282828 ॥२३२॥
SR No.008969
Book TitleShalibhadra Mahakavyam
Original Sutra AuthorN/A
AuthorMuktichandravijay, Munichandravijay
PublisherSamkhiyali Jain Sangh Samkhiyali
Publication Year2007
Total Pages624
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, History, & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy