SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ पक्रमः शालिभद्र महाकाव्यम् 8282828282828282828282828282828282 'ततः' तदनु । 'विमर्शकुण्डान्तः' विचारकुण्डमध्ये । 'अत्यन्तामलतां' अतिनिर्मलताम् । 'इतः' प्राप्त: पूरः । 'ज्ञानादिकैः' ज्ञानदर्शनचारित्रैः । 'त्रिभिः घटनालैः' त्रिजलमार्गः। 'गरनाळो' इति भाषायाम् । 'मनःसरः' मानसजलाशयम्। 'व्याप' व्याप्तिं गतः ॥ ५१ ॥ तत्रोच्चरसकल्लोलस्नानानन्दाभिनन्दितः । अनन्तब्रह्मलक्ष्मीकः, श्रीजिनः प्रतिभासते ॥ ५२ ॥ 'तत्र' मनःसरसि । विष्णुपक्षे-क्षीरसागरे । 'उच्चरस-कल्लोल-स्नानानन्दाभिनन्दितः' उच्चरसः शान्तरस: तद्रूपे कल्लोले नानस्य आनन्देन अभिनन्दितः पूर्णः । पक्षे-उच्चरसानां उच्छ्रितजलानां कल्लोले-तरङ्गे स्नानानन्देन अभिनन्दितः । 'अनन्तब्रह्मलक्ष्मीकः' अनन्ता परब्रह्मणो विशुद्धात्मन: लक्ष्मी: यस्य सः । पक्षे-अनन्त:-शेषाहिः, ब्रह्म-सत्यतत्त्वम्, लक्ष्मी:-विष्णुपत्नी तद्वान् । लक्ष्मीसहितः विष्णुः शेषनागोपरि क्षीरसागरे शेते इति पौराणिका: । 'श्रीजिनः' श्रीवीतरागः । पक्षे-श्रीविष्णुः । 'पीताम्बरो मार्ज-जिनौ' इति हैम्याम् । 'प्रतिभासते' शोभते ॥ ५२ ॥ तदयं श्रीमहाधर्मो, मात रोचतेतराम् । मृष्टं वैद्योपदिष्टं च, भवतात्तु त्वदाज्ञया ॥ ५३ ॥ तत् । 'मातः' हे जननि ! 'अयं श्रीमहाधर्मः' अर्हदुक्तः महान् धर्मः । 'मे' मह्यम् । 'रोचतेतरां' अत्यर्थं रोचते। 'तु' किन्तु । 'त्वदाज्ञया' तवाऽऽदेशेन । 'मृष्टं' वैद्योपदिष्टं च' भवतात्-भवतु ॥ ५३ ।। अम्बार्बुदगुणे पुत्रे, धर्मकृवंशभूषणे । मानतुङ्गेऽप्यधिष्ठात्री, श्रीमाता युज्यते यतः ॥ ५४ ॥ 'अम्ब' हे मात: ! अर्बुदपक्षे-हे देवि ! 'यतः' यस्मात् । 'अर्बुदगुणे' दशकोटिगुणे पुत्रे । पक्षे-अर्बुदपर्वते । 82828282828282828282828282828282828 ॥ २०५ ॥
SR No.008969
Book TitleShalibhadra Mahakavyam
Original Sutra AuthorN/A
AuthorMuktichandravijay, Munichandravijay
PublisherSamkhiyali Jain Sangh Samkhiyali
Publication Year2007
Total Pages624
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, History, & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy